________________
कातन्त्रव्याकरणम्
अयू” (१ । २ । १२) से एकार को 'अय्' आदेश तथा "रेफसोर्विसर्जनीयः " (२।३।६३) से सकार को विसगदिश || २५७ |
४२०
२५८. एतस्य चान्वादेशे द्वितीयायां चैन [ २।३।३७] [ सूत्रार्थ ]
टा-ओस् - द्वितीया विभक्तियों के परे रहते अन्वादेशविषय में 'एतद्' तथा 'इदम्' शब्द को 'एन' आदेश होता है || २५८ |
[दु० वृ० ]
एतस्य इदमश्च टौसोर्विभक्त्योर्द्वितीयायां च कथितस्यैवानुकथनविषये एनादेशो भवति । एतं व्याकरणम् अध्यापय, अथो एनं वेदमध्यापय । इमं घटमानय, अथो एनं परिवर्तय । एतेन रात्रिरधीता, अथो एनेनाहरप्यधीतम् । एतयोः शोभनं शीलम्, एनयोश्च प्रभूतं स्वम् इत्यादि योज्यम् ।। २५८ ।
[दु० टी० ]
एतस्य०। त्यदादीनामेतच्छब्दस्यैकदेश एतशब्दो गृह्यते, प्रकृतेः श्रूयमाणश्चकारः प्रकृतिमेव समुच्चिनोतीत्याह - इदमश्चेति । आदिश्यते इत्यादेशः । दिशिरिह कथने वर्तते, यथा धर्म दिदेश मोक्षाय' इति । विषयसप्तमीयमित्याह - कथितस्यैबेत्यादि । एवशब्देन न्यायार्थः सूच्यते । भिन्नाधिकरणे न भवति 'देवदत्तं भोजय, इमं च यज्ञदत्तम्' इति । न ह्यत्र एकार्थस्य पूर्वशब्देन प्रतिपादितस्य द्वितीयप्रतिपादनम् । इदमेतदोः श्रुतत्वाद् आभ्यामेव कथित इति गम्यते 'अयं दण्डो हरानेन, एतमाडं ङितं बिद्यात्'। नायमन्वादेशः, एकविधानत्वात् । तथा हि अयमित्यनेन दण्डस्य स्वरूपोपलक्षणमात्रं कृत्वा ‘हरानेन' इति हरणक्रियां प्रति दण्डस्य करणत्वं निर्दिश्यते ।
'एतमाङ ङितं विद्यात्' इत्यनेन ईषदादिष्वर्थेषु आकारमात्रनिर्देशं कृत्वा वेदनक्रियायां कर्मभाव एव विधीयते इति एतदः एतस्य एनादेशे दस्य त्यदाद्यत्वं च कथं नपुंसके । एतत् कुण्डलमानय, अथो एनत् ( ? ) परिवर्तय' इति नित्यत्वादमो लोपे तदुक्तप्रतिषेधादत्वं नास्तीति चेत् तर्हि कथम् एनादेश इति । नैवम् । द्वितीयायामिति विषयसप्तमीत्वाद् भविष्यति || २५८ |
[वि० प० ]
-
एतस्य० । प्रकृतेः श्रुतश्चकारः प्रकृतिमनुकर्षति प्रत्ययाच्च प्रत्ययमित्याह – एतस्य इदमश्चेत्यादि । आदिश्यते इत्यादेशः । दिशिरिह कथने वर्तते । यथा 'धर्मं दिदेश मोक्षाय'