________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
२५४. तस्य च [२।३।३३] [सूत्रार्थ]
'सि' विभक्ति के परवर्ती होने पर 'त्यदादि' गणपठित शब्दों में विद्यमान तकार को सकारादेश होता है ।।२५४।
[दु० वृ०]
त्यदादीनां तकारस्य सकारो भवति सौ विभक्तौ । स्यः, स्यकः, सः, सकः । साक्षात् साविति किम् ? तत्पुत्रः ।। २५४।
[दु० टी०]
तस्य। कथमेषा सेति स्त्रीप्रत्ययेन व्यवधानात् । नैवम् । प्रागेव सौ सत्वं ततोऽत्वम, ततः स्त्रियामादा । विभक्तिष्वपि 'लिङ्गग्रहणे लिगविशिष्टस्यापि ग्रहणात' (का० परि० १७)। कथं 'हे सः' इति सन्निपातलक्षणत्वाद् ह्रस्वात् सिलोपो न स्यात् ? सत्यम् । वर्णग्रहणे निमित्तत्वाद् इत्यभ्युपगतम् । पूर्ववत् ‘स पुत्रोऽस्य' इति विग्रहः, तस्य विकारः सकारो भवतीति विकारस्थः स इति षत्वम् । आदेशेऽपि "एषसपरो व्याने०" (१।५।१५) इति नोपपद्यते । तस्येत्यकारः श्रुतिसुखार्थ एव । एकयोगे कृते सिध्यति चकारोऽदसोऽनुकर्षणार्थो भविष्यति ? सत्यम् । भिन्नयोगः सुखार्थ एव ||२५४।
[वि० प०]
तस्य० । तस्येत्यकारः श्रुतिसुखार्थ इति तकारमात्रस्यैव सकार इति । तसुत्र इति । ‘स पुत्रोऽस्य' इति विग्रहः ।।२५४/
[क० च०]
तस्य। तकारमात्रस्य सकार इति । एतेनैकवर्णस्थानिकृतत्वाद् विकारत्वेन 'एषः' इत्यत्र षत्वं सिद्धम् । अन्यथा यदि पुनः समुदायस्य स्थाने (सस्वरः) सकारः स्यात् तदाऽनेकवर्णस्थाने विधीयमानत्वात् षत्वं न स्यात् । ननु आदेशविकारयोः को भेदः इति ? अत्र कुलचन्द्रः - अनेकवर्णस्य स्थाने षो विधीयते, स आदेशः । एकवर्णस्य स्थाने षो विधीयते, स विकार इति । अतस्तिस्रादेशस्य समुदायस्थाने विधीयमानत्वान्न षत्वम् । तथा च 'स्थस्तिष्ठ' इत्यत्र षत्वनिर्देशः । तन्न । षत्वविधौ टीकायाम् अनेकवर्णस्थानीयस्य तिनादेशस्य विकारशब्देनोक्तत्वात् ।