________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
३६७
इत्युक्ते यदि दैवात् पुत्रो नास्ति तदापि देवदत्तो निर्धार्यते । एवम् इहापि सिलोपे प्रसज्यते । स्वयोगव्यवस्थापनपक्षेऽन्ययोगव्यवच्छेदपक्षेऽपि सविभक्तिग्रहणं सुखप्रतिपत्त्यर्थमेव । कथं निरहंकारोऽयम् इति अव्ययोऽयमहं शब्द: ।। २३१ ।
[वि० प० ]
त्वमहम्० । त्वमहमिति लुप्तप्रथमाद्विवचनं पदम् त्वन्मदोर्युष्मदस्मदोश्चेति । ननु कथमिह यथासंख्यम् आदेशिनां बहुत्वात् नैवम् । युष्मदस्मदोरेव आदेशित्वं सिद्धम् । त्वन्मदोस्तु तदग्रहणेन ग्रहणमिति यथासंख्यं न विरुध्यते । यस्तु सूत्रार्थे त्वन्मदोर्युष्मदस्मदोर्निर्देशः स च स्पष्टार्थ एव । अतित्वमिति । त्वां युवां युष्मान् वातिक्रान्तः । अत्यहमिति । माम् आवाम् अस्मान् अतिक्रान्त इति विग्रह: । इह युष्मदस्मदोर्द्वित्वे वर्तमानयोरपि न युवावौ भवत इति त्वम् - अहम् - आदेशस्य परत्वात् । एवमुत्तरत्रापि | सविभक्त्योरित्यादि । त्वय्यधि, मय्यधि' इति कारकार्थेऽव्ययीभावः ।
I
लुगिति परत्वात् " अन्यस्माल्लुक्” (२।४।३) इत्यनेन लुगित्यर्थः । तथा त्वं पुत्रोऽस्य, अहं पुत्रोऽस्येति विग्रहे ' त्वत्पुत्रो मत्पुत्रः' इति सविभक्तित्वाभावात् त्वमहमादेशौ न भवतः इति । न च वक्तव्यं प्रत्ययलोपलक्षणेन सविभक्तित्वं नहि मृतपुत्रः सपुत्र उच्यते लोके । यद्येवं पूर्वसूत्राद् अन्तलोपोऽधिक्रियताम्, अन्तलोपे सति भविष्यतीति किं सविभक्तिग्रहणेन ? सत्यम् । व्यवहितस्याधिकारे कष्टं स्यात् । तर्हि 'त्वमहं सिना' इत्युच्यताम्, सिना सहैव भवति तथोत्तरत्रापि तृतीयैकवचनं निर्दिश्यताञ् -‘“यूयं वयं जसि” इत्यादि । एतदप्ययुक्तम्, यथा 'देवदत्तः पुत्रेण सह निर्धार्यताम्' इत्युक्ते पुत्राभावे केवलोऽपि देवदत्तो निर्धार्यते लोके, तथेहापि सेलोंपे कृते केवलयोरपि युष्मदस्मदोः प्रसज्येतेति सविभक्तिग्रहणम् ।। २३१ ।
"
[क० च०]
त्वम्० | सविभक्त्योरिति किमिति वृत्तिः । 'त्वमहं सौ' इत्यास्ताम्, ततश्च त्वमहादेशे कृते सति " व्यञ्जनाच्च” (२।१।४९) इति सिलोपः सिद्धः । चेद् अधित्वम् इत्यादौ ‘“अन्यस्माल्लुक्” (२।४।३) इति कृते प्रत्ययलोपलक्षणन्यायेन त्वमहमादेशे प्राप्ते तन्निरासार्थं सविभक्तिग्रहणम् । चेत् तथापि न क्रियताम् । साविति भावसाधनं व्याख्येयम् । सौ विद्यमाने आदेशो नाविद्यमाने । यद् वा 'लुग्लोपे न प्रत्ययकृतम्' इति