________________
३६६
कातन्त्रव्याकरणम् २३१. त्वमहं सौ सविभक्त्योः [२।३।१०] [सूत्रार्थ]
प्रथमाविभक्ति - एकवचन 'सि' प्रत्यय के परवर्ती रहने पर 'युष्मद्-अस्मद्' शब्दों के स्थान में सिविभक्ति सहित ‘त्वम्- अहम्' आदेश होते हैं ।। २३१ ।
[दु० वृ०]
त्वन्मदोर्युष्मदस्मदोश्च सौ सविभक्त्योस्त्वमहम् इत्येतौ भवतो यथासंख्यम् । त्वम्, अहम्, अतित्वम्, अत्यहम् । सविभक्त्योरिति किम् ? अधित्वत्, अधिमत् । लुक् ।।२३१।
[दु० टी०]
त्वम् अहम् । लुप्तप्रथमाद्विवचनोऽयं निर्देशः । युष्मदस्मदोर्ग्रहणेन त्वन्मदोरपि ग्रहणं भविष्यति यथासंख्यं भवत्येव | सूत्रार्थे तु मन्दधियां सुखप्रतिपत्त्यर्थं त्वन्मदोनिदर्शनम् । अतित्वम्, अत्यहमिति । त्वाम्, युवां युष्मान् वा । माम्, आवाम् अस्मान् वा अतिक्रान्त इति विग्रहः । एवं प्रियौ युवाम्, प्रिया यूयं वा यस्य स प्रियत्वम्, प्रियाहम् इति तदन्तविधिनापि निर्दिश्यमानस्यैवादेशो भविष्यति । सविभक्त्योरित्यादि । त्वय्यधि, मय्यधि' इत्यव्ययीभावात् । लुगिति परत्वादन्यस्माल्लुगित्यनेन लुग् भवतीत्यर्थः । तस्मान्न युष्मदस्मदी सविभक्ती वर्तेते इति । एवं युष्मासु अधि अधियुष्मत्, एवम् अध्यस्मत् । त्वां युवां युष्मान् वा अतिक्रान्तं कुलम् अतित्वम्, एवम् अत्यहम् इति भवितव्यम् इति स्वभावात् समासेऽप्यलिङ्गे युष्मदस्मदी अव्यतिरिक्तलिङ्गपक्षेऽपि न नपुंसकात् स्यमोर्लोप: स्यात् तत्र मुख्यनपुंसकग्रहणात् ! येषां सलिङ्गे युष्मदस्मदी इति निदर्शनम्, तन्मतेनापि नपुंसकादेशेभ्यः परत्वाद् युष्मदस्मदादेशो भवति । सम्बोधनेऽपि हे त्वम्, हे अतित्वम् , हे अत्यहमिति भवितव्यम् । अन्तदर्शनादन्तलोपेऽपि कृते ह्रस्वलक्षण : सिलोपो न भवति, पूर्वविधित्वात् । त्वं पुत्रोऽस्य, अहं पुत्रोऽस्थति विग्रहे 'त्वत्पुत्रो मपुत्र' इति प्रत्ययलोपे प्रत्ययलक्षणमपि न भवति ।.न हि मृतपुत्री देवदत्तः सपुत्रः उच्यते।
अथान्तलोपोऽधिक्रियते उत्तरत्रापि न दुःयति - यूयं पुत्रा अस्य युष्मपुत्रस्तुभ्यं हितस्तद्धितः, तव पुत्रस्त्वत्पुत्र इति न कष्टम्, व्यवहितत्वात् । त्वमहं सिनेति कृते विना सह भविष्यति उत्तरत्रापि तृतीवैव निर्दिश्यताम् । ननु पुत्रेण सह निर्धार्यो देवदत्त