________________
३४६
कातन्त्रव्याकरणम्
[दु० वृ०]
एकत्वे वर्तमानयोर्युष्मदस्मदोस्त्वन्मद्भूतयोः पदं पदात् परं षष्ठी- चतुर्थीद्वितीयास्वेकत्वे निष्पन्नं यथासंख्यं 'ते- मे' इत्येतौ प्राप्नोति वा । त्वा – मा तु द्वितीयायाम् । पुत्रस्तव, पुत्रो मम - पुत्रस्ते, पुत्रो मे । एवं दास्यति । पुत्रस्चा, पुत्रो मा पातु ।।२२४।
[दु० टी०]
त्वन्मदोः । युष्मदस्मदोरितीह वर्तते एवेत्याह - एकत्व इत्यादि । एकत्वे एकत्वार्थे वर्तमानयोर्युष्मदस्मदोः स्थाने ये त्वन्मदी भूते तयोः पदं षष्ठीचतुर्थीद्वितीयास्वेकत्वे इति एकत्वार्थस्य विभक्तिसामर्थ्यलब्धत्वात् । अतः पूर्ववदिहापि व्याख्यानम् । उभयविशेषणं वा सुखार्थं क्रियते । एकत्वेन युष्मदस्मदोर्विशेषणात् समासार्थस्यैकत्वे त्वन्मदी न स्तः इति प्रतिपद्यते । युष्मान् अस्मान् अतिक्रान्तेन अतियुष्मया, अत्यस्मया । समासार्थस्य द्वित्वबहुत्वयोर्विद्येते त्वन्मदी । यथा त्वां मामतिक्रान्ताभ्याम् अतिक्रान्तैर्वा अतित्वाभ्याम् अतिमाभ्याम् अतित्वाभिरतिमाभिरिति । अस्मादेव वचनाद् युष्मदस्मदोः स्थाने एकत्वमात्रे त्वन्मदी सिद्धे । पदादिति षष्ठीचतुर्थीद्वितीयासु इति च प्रधानेनैव पदशब्देन सम्बध्यते । न च त्वन्मदी प्रकृत्यन्तरस्वभावाद् एकत्वाभिधायिनी |युष्मदस्मदोश्च द्वित्वबहुत्वयोरेव वृत्तिः स्वभावादिति वक्तुं शक्यते, यस्मात् त्वं यासि, अहं यामीति "युष्पदि मध्यमः, अस्मयुत्तमश्च" (३।१।६, ७) न सिध्यति ।
__ अथ युष्मदस्मदोरेव विशिष्टार्थप्रतिपादकत्वाद् अनयोरपि युष्मदस्मद्व्यपदेशो लोकतः सिद्धः ? सत्यम् , युक्तमेतन्निरपेक्षत्वात् प्रत्ययोत्तरपदयोरपि त्वन्मदी भवत एव । यथा त्वामिच्छति, मामिच्छति । त्वमिव अहमिवात्मानमाचरति - ‘त्वद्यति, मद्यति, त्वद्यते, मद्यते' । त्वां मामाचष्टे - त्वदयति, मदयति । तव पुत्रः वपुत्रः । मम पुत्रः, मत्पुत्रः इति । तुशब्दो वाक्यभेदार्थे द्वितीयायामेकत्वे पुनः त्वा- मादेशावित्यर्थः । पूर्ववदिहापि लुप्तद्वितीयाया द्विर्वचनं पदमिति ‘ते- मे' विधानकाले सूत्रार्थे द्वितीयानिदर्शनं यथासंख्यनिरासार्थमेव प्रतिपत्तव्यम् ! त्या – मा चीति कृते द्वितीयाग्रहणं सुखार्थमेव ।।२२४।