________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः २२१. के प्रत्यये स्त्रीकृताकारपरे पूर्वोऽकार इकारम् [२।२।६५]
[सूत्रार्थ]
स्त्रीलिङ्ग कृत आकार के परवर्ती होने पर प्रत्ययगत ककार से पूर्ववर्ती अकार को इकारादेश होता है ।।२२१ ।
[दु० वृ०]
के प्रत्यये स्त्रीकृताकारपरे पूर्वोऽकार इकारमापद्यते । सर्विका.उष्ट्रिका, पाचिका, पाठिका। क इति किम् ? चेतना । प्रत्यय इति किम् ? तका स्त्रीति किम् ? पाचकाभ्याम् । कृत इति किम् ? पुत्रकाम्या | बहुलाधिकारात् ‘यका, सका' । जीवका, नन्दका ! आशिष्यकः ।।२२१।
॥ इति दौर्गसिंह्यां वृत्ती नाम्नि चतुष्टये द्वितीयः सखिपादः समाप्तः॥
[दु० टी०]
के० । प्रत्यय इतिं विषयसप्तमीयम् । प्रत्ययावयवोऽपि प्रत्यय इहोपचारादिति । अकारेण ककार उच्चार्यते । समानदीर्घत्वे सति 'परनिमित्तादेशः पूर्वस्मिन् स एव' (का० परि० ४४) इति स्त्रीकृत आकार उच्यते । अथ 'स्वरादेशः परनिमित्तकः पूर्वविधि प्रति स्थानिवत्' (का० परि० ९) इति चेत्, तथाप्येकेन वर्णेन व्यवधानमाश्रीयते न त्वनेकेनेति न्यायात् समानदीर्घात् प्रागित्वं स्यात् । संभवे हि के गृह्यमाणे पाचिकेति सिध्यति । व्यपदेशिवद्भावाद् उष्ट्रिकेति च । सर्विकेति न सिध्यति, तदेतत्प्रकरणसन्निधानाद् व्यवहितस्याकारस्य प्रत्ययग्रहणबलादिति । स्त्रियां कृत आकारः परो यस्मादिति विग्रहः । पूर्वशब्दयोगाविवक्षायां क इति परसप्तमीमाह - सर्विकेति । सर्व+ अक "स्त्रियामादा" (२।४।४९) । उष्ट्रिकेति अज्ञाताद्यर्थे कप्रत्ययः । पाठिकेति । पठ व्यक्तायां वाचि, वुण् । 'युवुझामनाकान्ताः' (४।६।५४) इत्यकः । चेतनेति । चेतयते: "ईषिश्रन्यासि" (४।५।८५) इत्यादिना स्त्रियां युः । तकेति । तक हसने, पचाद्यच् । पाचकाभ्यामिति । यदि स्त्रीग्रहणं न क्रियते तदा घोषवति दीर्घे सति कृताकारपरः ककारो भवतीत्वं स्यात् । यदि कृतग्रहणं न क्रियते तदा स्त्रीलिङ्गविषये अकारे स्यात् । पुत्रस्येच्छा ‘पुत्रकाम्या' इति काम्यप्रत्ययस्ततः शंसिप्रत्ययादः “स्त्रियामादा"