________________
३०८
कातन्त्रव्याकरणम्
मानाभावात् । रक्तविकार इत्यत्र कर्मधारयेणैव सिध्यति । तथाहि रक्तार्थे विहितत्वाद् रक्तो विकारार्थे विहितत्वाद् विकारस्ततः कर्मधारयः । तस्मादयं समाधिः – समाहारद्वन्द्वे नपुंसकत्वप्रसक्तावपि उपचारात् स्वलिङ्गत्यागः । यथा 'शिवो मे श्रीयशोमुखः' ।पूर्वस्येति कर्मणि षष्ठी स्यादिति । ननु कथमत्र कर्मणि षष्ठीप्रसङ्गः, यावता "न निष्ठादिषु" (२।४।४२) इत्यनेन किप्रत्ययस्य निष्ठादित्वात् षष्ठी न स्यादिति चेत्, नैवम् । ताच्छीलिकेन तृला साहचर्याद् "आद् अवर्णोपघालोपिनाम्" (४! ४/५३) इत्यादिना विहितस्य किप्रत्ययस्य निष्ठादौ विहितत्वादत्र पुनः “उपसर्गे दः किः" (४।५।७०) इति किप्रत्यये रूपम् । नहि अपूर्वक इत्यादि । ननु कथमिदमुच्यते यावता "घुटां तृतीयः" (२।३।६०) इत्यनेन दः इत्यादावपूर्वत्वविशिष्टस्य विधाने कर्तव्ये पूर्वस्य तृतीयस्य विधानसम्भवात् ? सत्यम् । ___अत्र हेमकरः – नायं तृतीयविधिः पूर्वशब्दवाच्यः, येनात्र प्रसङ्ग इति । अन्ये तु यथा 'प्रासादो धवलः क्रियताम्' इत्युक्ते स्थितस्य प्रासादस्य धावल्यकरणमेव प्रतीयते । तत्र च परत्र च स्थितस्य वर्णस्य पूर्वत्वविधानमेव प्रतीयते । एतत्तु न संभवत्येव परवर्णस्य पूर्वत्वावधाने सूत्राभावाद् इत्याहुः । वस्तुतस्तु पूर्वत्वविशिष्टस्य तृतीयस्य विधाने कर्तव्ये पूर्वस्य सापेक्षत्वेन किमपेक्षया पूर्वत्वं गृह्यते इति चेत्, अकारापेक्षया वक्तव्यम् । नैवम्, तृतीयविधानकालेऽकारस्याविद्यमानत्वात् । अतः पूर्वत्वमेव न सम्भवतीति कर्मसाधनमेव वाच्यम् । धुटां तृतीय इत्यादिकम् इति । अत्रादिग्रहणं व्यक्तिपक्षमवलम्ब्योक्तम् । 'व्यक्तौ प्रतिलक्ष्यं लक्षणानि क्रियन्ते' इति न्यायाद् इति भावः ।।२०९।
[समीक्षा]
'राजन् + शस्, दधि- दधन् + टा, प्रतिदीवन् + शस्' इस अवस्था में कातन्त्रकार तथा पाणिनि 'अन्' के अकार का लोप करके 'राज्ञः, राज्ञा, दनः, दना, प्रतिदीनः, प्रतिदीव्ना' शब्दरूप सिद्ध करते हैं। पाणिनि का सूत्र है - "अल्लोपोऽनः" (अ० ६।४।१३४) । सूत्ररचना-शैली की दृष्टि से कातन्त्र की यह विशेषता है कि इसी सूत्र में 'अवमसंयोगात्' पद का पाठकर 'पर्वणः, चर्मणः' में अकारलोप का निषेध कर दिया गया है, जबकि पाणिनि को इस निषेध के लिए स्वतन्त्र सूत्र बनाना पड़ा है – “न संयोगाद् वमन्तात्" (अ० ६।४।१३७) ।