________________
नापचतुष्टयाध्याये बितीयः सखिपादः
३०७ (का० परि० ९) इति, अनेनैव सिद्धत्वात् । अनर्थकम् अलुप्तवद्वचनं "न पदान्तद्विवचन०" (का० परि० १०) इत्यादिषु स्थानिवद्भावप्रतिषेधात् । परविधिं प्रति लुप्त एवेति परस्य वर्णस्य विधिर्भवत्येव । यथा 'राज्ञः' इति "तवर्गश्चटवर्गयोगे" (२।४।४६) इति नकारस्य अकारः । 'प्रतिदीनः' इति दिवेः क्वन् औणादिकः । लोपमपेक्ष्य पूर्व इह गृह्यते । तेनातिपूर्वस्य "नामिनो वोः" (३।८।१४) इत्यादिना इकारस्य दीर्घः स्यादेव |अलुप्तवद्भावस्य प्रयोजनं यथासंभवमेव द्रष्टव्यमिति ।।२०९।
[क० च०]
अवम० । ननु ‘वम' इति वर्णद्वयमात्रं संयोगश्च व्यंजनसमूहस्ततो भिन्नाधिकरणत्वात् कथं कर्मधारय इत्याह-वमाभ्यामित्यादि । एतेन वकारमकारविशिष्टः संयोग इत्यर्थः । कथन्तर्हि मव्यतेजृम्भतेश्च युद्धन्तादिनि क्विपि कृते 'सुमनः' सुजृम्भ्णः ' इत्यत्र वमादिसयोगाद् अनोऽकारलोप इत्याह - विशेषणेत्यादि । 'येन विधिस्तदन्तस्य' (का० परि० ३) इति न्यायाद् इत्यर्थः । तेन वान्त- मान्तसंयोग इत्यर्थः प्रतिपत्तव्यः । अत इत्यादि । ननु तदन्तविधिना वमपदेन वमान्तसंयोगस्योक्तत्वात् सामानाधिकरण्यात् सुतरां कर्मधारयः संभवति किं सामानाधिकरण्यार्थ - मुपचार आश्रीयते इति ? सत्यम् ।
अस्यायमाशयः- वकारमकारयोर्वर्णमात्रे शक्तिर्न तु वमान्तसंयोग इत्युपचारः क्रियते । उपचारे हेतुमाह - अत इति । 'येन विधिस्तदन्तस्य' (का० परि० ३) इति न्यायादित्यर्थः । एतेन यत्र यत्र परिभाषया तदन्तो गृह्यते तत्र तत्र उपचारः। यद् वा 'येन विधिस्तदन्तस्य' (का० परि० ३) इत्यत्र तदन्तपदे कर्मधारयमाश्रित्य पत्री योजनीया । तथाहि वमश्चासावन्तश्चेति ‘वमान्तः' इत्यनेन अन्तभूतवमान्त उच्यते न तु संयोगः । अतः सामानाधिकरण्याभावात् कथं कर्मधारयः इत्यवश्यमेवोपचारः कर्तव्यः । एतदुक्तं भवति 'येन विधिस्तदन्तस्य' (का० परि० ३) इति न्यायात् प्राप्तेन अन्तभूतेन वमकारेण वकारमकारान्तः संयोगः उच्यते, उपचर्यते इत्यर्थः । ततो वमश्चासावित्यादि वश्च मश्चेति समाहारत्वेन नपुंसकत्वम् । इतरेतरे च द्विवचनं युक्तम्, तत् कथं वमश्चेति समाहारत्वादेकत्वे पुंसा निर्देशः ।
अत्र हेमकरः सिद्धान्तयति - संयोग इत्यस्य विशेषणत्वान्न दोष इति । यथा रक्तश्च विकारश्च रक्तविकारस्तद्धित इति । ननु संयोगविशेषणानामपि स्वलिङ्गपरित्यागे