________________
२९०
कातन्त्रव्याकरणम्
[दु० वृ०]
अघुट्स्वरादौ प्रत्यये परे सेटकस्याप्यसेट्कस्यापि वन्सेर्वशब्दस्योत्वं भवति । पेचुषः, पेषुषा, पेचुषी, पैचुषम् । विदुषः, विदुषा, विदुषी, वैदुषम् । ये च वक्तव्यम् – पैचुष्यम्, वैदुष्यम् ।। २०२ ।
[दु० टी०]
अघुट्छ । घुट्प्रत्ययादन्योऽघुट्प्रत्ययः उच्यते । स्वर एवादिर्यस्येति बहुव्रीहिः । अघुट चासौ स्वरादिश्चेति विग्रहः । आदिग्रहणबलात् प्रत्ययकृत इह पर्युदासो न स्यादिकृत इति । तेन विद्वदाश्रयो विद्वदर्थ इति सिद्धं भवति । सह इटा वर्तते इति सेट्कः वशब्द उच्यते न वन्सिः सन्निकृष्टोऽपि, विशेषणस्य विफलत्वाद्नवृदन्ताभ्यामन्यत्र कप्रत्ययो विभाषयेति । अपिशब्दो व्यभिचारार्थः । यद्येवम्, सेट्कग्रहणं किमर्थं व्यञ्जनादिभूत इट् तदभावे निवर्तते 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २६) इति न्यायात् । यथा स्फोटकाभावे तद्गतव्यंथाभाव इति । ननु च वन्सुरत्र निमित्तम्, नैवम् । “अर्तीण्यसैकस्वरातामिड्वन्सौ" (४।६।६६) इत्यत्र 'वन्सौ' य एकस्वरस्तस्मादिड् भवत्यादिळञ्जनादेरसार्वधातुकस्येटष्टकारानुबन्धबलान्निश्चितम्, नैवम् । प्रतिपत्तिगौरवं स्यात् । किञ्च निमित्ताभावेऽपि क्वचिन्नैमित्तिकस्य सद्भावोऽपि दृश्यते ।
'पाचितः, पाचितवान्' इति कारिताभावेऽपीटः स्थितिरेव यथा पितुरभावे पुत्रस्येति । वन्सेरिति क्वन्सुवन्सोर्ग्रहणम् अविशेषनिर्देशात् । इकारस्तु धातुनिरासार्थः, अन्यथा अनुषङ्गलोपे 'वस' इति निर्देशे ‘चर्म वस्ते' इति क्विपि 'चर्मवस्' इत्यत्रापि स्यात् । 'वन्सेरुस्' इति कृते सिद्धे इह साध्यसाधनप्रतीतिर्लघु निर्दिश्यते, उत्तरार्थं च वस्योत्वमिति कृतेऽप्यकार उच्चारणार्थ इत्यपि प्रतिपद्यते । अतः शब्दग्रहणम् । पेचुष इत्यादि । “अस्यैकव्यान०"(३।४।५१) इत्यादिनेत्वम् "वेत्तेः शन्तुर्वन्सुः"(४।४।४), 'परमविदुषः' इति भवत्येव । नात्र यस्मात् प्रत्ययविधिस्तदादेस्तदन्तस्य' (कालाप० २२२५९) इत्याद्रियते । कारिते तु पेचिवयति, विदुषयति' इति भवितव्यम्,प्रकरणान्तरत्वात् । भावप्रत्ययनिर्देशस्तु सुखार्थ एव । शब्दस्योरित्युच्यमाने सान्तोऽयमप्याशक्यते ।
अधिकृतं पुनरघुट्स्वरग्रहणं प्रकरणान्तरग्राहकमेव मन्तुप्रत्ययेऽपि वक्तव्यम् – 'पेषुष्मान्, • विदुष्मान्' इति ।।२०२।