________________
२८४
कातन्त्रव्याकरणम्
[दु० टी०]
संबुद्धौ० । उभयोरित्यवयवावयविसंबन्धे षष्ठी उभयोः स्वरस्य ह्रस्व इत्यर्थः । तयोरिति न कृतम्, उत्तरार्थं पर्यायश्चेति ।।२००।
[वि० ५०]
संबुद्धौ । हे प्रियचत्वरिति । प्रियाश्चत्वारो यस्यासौ प्रियचत्वाः, तस्य संबोधने हे प्रियचत्वः! "आमन्त्रणे च" (२।४।१८) इति सिः ।।२००।
[क० च०]
संबुद्धौ० । ननु सम्बुद्धावुभयोरत्' इति क्रियताम्, ततश्च तकारस्योच्चारणार्थत्वादे"कवर्णत्वे सति ह्रस्वस्य स्वरसादृश्यादाकारस्य स्थाने भविष्यति, किं ह्रस्वग्रहणेन । न च 'वर्णान्तस्य विधिः' (का० परि० ५) इति न्यायात् संबुद्धेळवहितत्वाच्च चत्वार्शब्दस्थरेफस्य अनड्वाशब्दस्थहकाररय च स्थान इति वाच्यम्, विशेषाभावात् । तथाहि चत्वार्- शब्दस्थरेफस्य स्थानेऽकारे कृते दीर्घात् परलोपे संबुद्धेः सकारस्य विसर्गे कृते 'हे प्रियचत्वाः' इति प्रयोगः साध्यः । एतच्च रूपं सूत्रमकृत्वापि व्यञ्जनात् सिलोपे रेफस्य विसर्जनीये कृते सिध्यति ।
एवम् ‘अनड्वाह'- शब्दस्थहकारस्य स्थानेऽकारे ततः परं "सौ नुः" (२।२।४३) इति न्वागमे कृते पश्चाद् दीर्घात् परलोप इत्यकारलोपे ‘अनड्वान्' इति रूपं साध्यम् । एतच्चाकारग्रहणमकृत्वापि हकारात् पूर्व न्वागमे संयोगान्ताकारलोपे व्यञ्जनात् सिलोपे सिध्यति । तस्मात् सूत्रवैयदिव रेफहकारयोः स्थाने न भविष्यति किन्त्वाकारस्यैव किं ह्रस्वग्रहणेन ? नैवं विशेषोऽस्ति । तथाहि चत्वार्-शब्दस्थरेफस्याकारे संबुद्धिसकारस्य विसर्गे विसर्गस्यारेफप्रकृतित्वाभाव एव प्रयोजनम् । ततश्च 'हे प्रियचत्वः! आगतः' इत्यत्र "रप्रकृति०" (१।५।१४) इत्यादिना रेफाभावः सिद्धः । अन्यथा यदि भवन्मतेन साध्यते तदा विसर्गस्य रेफप्रकृतित्वात् 'हे प्रियचत्वरागतः' इति रेफेऽनिष्टप्रयोगः स्यात् । तन्न युक्तम् । यावता रेफस्थानेऽकारे कृते दीर्घात् परलोपे भूतपूर्वह्रस्वमाश्रित्य संबुद्धौ सेलोपे कृते कुतो रेफस्य विसर्गः, कुतो वा संबुद्धिसकारस्य विसर्ग इति ।
न च यत्र संबुद्धिमाश्रित्य ह्रस्वः कृतस्तत्रैव भूतपूर्वगतिरिति हेमकरमतं वाच्यम्, "हस्वनदी०" (२।१।७१) इत्यत्र दूषितत्वात्, तर्हि तद्ग्रहणे कृते 'हे