________________
२८२
कातन्त्रव्याकरणम्
४. आनडुहिकः । अनड्वाह् + इकण् । अनडुहा चरति । “तेन दीव्यति संसृष्टं तरतीकण चरत्यपि" (२।६।८) से इकण्-प्रत्यय, प्रकृत सूत्र से 'वा' को 'उ' "वृद्धिरादौ सणे" (२।६।४९) से आदिवृद्धि तथा विभक्तिकार्य ।
___५. अनडुगम् । अनड्वाह् + य । अनडुहि साधु । "तत्र साधौ यः" (२।६।९) से य-प्रत्यय, वा को उ तथा विभक्तिकार्य ।
६. अनडुही-अनड्वाही । अनड्वाह् + ई । “नदायन्चिवायनस्यन्तृसखिनान्तेभ्य ई" (२।४।५०) से स्त्रीलिङ्ग में 'ई' प्रत्यय, वा को उ तथा विभक्तिकार्य । 'अनड्वाहीमालभेत' इस वैदिक वचन के आधार पर कुछ आचार्य यहाँ विकल्प से वा को उ आदेश मानते है। अतः पक्ष में 'अनड्वाही' प्रयोग ।
१९९. सौ नुः [२।२।४३] [सूत्रार्थ]
'सि' प्रत्यय के पर में रहने पर 'अनड्वाह्' शब्द में 'नु' का आगम होता है ।। १९९।
[दु० वृ०]
'अनड्वाह्' इत्येतस्य सौ परे नुरागमो भवति । अनड्वान् । साविति किम् ? अनड्वाहौ ।। १९९।
[दु० टी०]
सौ०। नुरित्युकारः “आगम उदनुबन्धः स्वरादन्त्यात् परः” (२।१।६) इति प्रतिपत्त्यर्थः ।। १९९।
[क० च०]
सौ० । अथ 'सौ न्' इति क्रियताम्, किमुकारग्रहणेन । 'वर्णान्तस्य विधिः' (का० परि० ५) इति न्यायाद् अकारस्य नकारे साध्यं सिध्यति । नैवम् | "चतुरो वाशब्दस्योत्वम्" (२।२।४) इत्यतो वाशब्दानुवृत्त्या वाशब्दस्य प्राप्नोति, ततोऽनिष्टरूपं स्यात् । नैवम् । “सम्बुद्धावुभयोर्हस्वः" (२।२।४४) इति हस्वविधानाद् वाशब्दस्य भविष्यति । अन्यथा वाशब्दस्य नकारे कृते ह्रस्वस्थानाभावाद् वचनस्य वैफल्यं स्यात् ।