________________
नामचतुष्टयाप्याये द्वितीयः सखिपादः
२७१ के पोः" (२।६।१९)। प्रियाश्चत्वारो यस्येति विग्रहः । तमाचेष्ट इतीन् । 'लोपात् स्वरादेशो विपिलवान्' (का० परि० ३५) इति प्रागुक्तम्, पश्चादन्त्यस्वरादिलोपः । 'शब्दान्तरस्य विधिः प्राप्नुवन्न नित्यो भवितुमर्हति' (व्या० प० ७७) इति, तदयुक्तम् । परत्वाद् अन्त्यस्वरादिलोप एव स्यात् । परिभाषां हि बलाबलयुक्तिर्बाधते । अन्यथा 'तत्कुलम्' इत्यादिषु लोपात् स्वरादेश एव स्यात् । तर्हि भावप्रत्ययबलात् । भावः खलु जातिः । तस्याश्च सदा सद्भावात् कुतस्तदपेक्षया परत्वं युज्यते । जातिरन्वाख्यायमाना व्यक्तिमन्तरेण नोपलभ्यते इति उकारः प्रवर्तते । शब्दग्रहणं स्पष्टार्थमेव । 'वा उत्त्वम्' इति कृते विकल्पो नाशक्यते, असंहितत्वाच्चतुरः इति निर्देशाच्च ।। १९७।
[वि० प०]
चतुरः । चातुरिक इति । चतुर्भिः क्रीत इति क्रीतादित्वाद् इकण (२।६।८)। चतुर्थ इति । "संख्यायाः पूरणे उमौ" (२।६।१६) इति डप्रत्ययः । “अन्तस्थोडे पोः" (२।६।१९) इति मध्ये थकारागमः। प्रियचतयतीति । प्रियाश्चत्वारो यस्यासौ प्रियचत्वः, प्रियचत्वारमाचष्टे इतीनि कृते 'लोपस्वरादेशयोः स्वरादेशविधिर्बलवान्' (का० परि० ३५) इति पूर्वम् उत्वे कृते पश्चादिनि “लिङ्गस्य" (२।३।५६) इत्यादिनाऽन्त्यस्वरादिलोपः । ननु नित्यत्वात् प्रागेव अन्त्यस्वरादिलोपः कथन्न स्यात्, नैवम् । 'शब्दान्तरस्य विधिः प्राप्नुवननित्यो भवितुमर्हति' (व्या० प० ७७) इति, तर्हि परत्वाल्लोपः प्राप्नोति? सत्यमेतत् । किन्तु उत्वमिति भावप्रत्ययान्तोऽयम् । भावश्च जातिः तस्याश्चामूर्तत्वात् पूर्वपरव्यवहारायोगान्न परत्वमस्तीति । उकारस्तर्हि कथं प्रवर्तते इति चेत्, सत्यम् । व्यक्तिमन्तरेण जातिर्न संभवतीति उकारः प्रवर्तते । चातुर्यम् इति । चतुर्णां भाव इति विग्रहे “यण च प्रकीर्तितः" (२।६।१४) इति यण् ।। १९७।
[समीक्षा]
‘चत्वार् + शस्, चत्वार् + भिस्, चत्वार् + इकण्, चत्वार् + ड, चत्वार् + यण, प्रियचत्वार् + इन्' इस अवस्था में कातन्त्रकार 'वा' शब्द को 'उ' आदेश करके चतुरः, चतुर्भिः, चातुरिकः, चतुर्थः, चातुर्यम्, प्रियचतयति' शब्दरूप सिद्ध करते हैं । पाणिनि 'चतुर्' को ही प्रातिपदिक मानते हैं, अतः उन्हें इन शब्दों के सिद्ध्यर्थ यह प्रक्रिया नहीं अपनानी पड़ती है। जस्प्रत्ययान्त 'चत्वारः' रूप बनाने के लिए उन्हें "चतुरनहुहोरामुदात्तः" (अ० ७।१।९८) से 'आम्' आगम करना पड़ता है।