SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये द्वितीयः सखिपादः ५-८. महतः । महन्त् + शस् । महता । महन्त् + टा | महद्भ्याम् | महन्त् + भ्याम् । महत्सु | महन्तु + सुप् । पूर्ववत् प्रकृत सूत्र नकार - लोप । २७७ ९. महत्ता | महन्त् + त । महतो भावः । " तत्वौ भावे" (२। ६ । १३) से तप्रत्यय, नलोप, "स्त्रियामादा" (२।४।४९) से आ - प्रत्यय, लिङ्गसंज्ञा, सि- प्रत्यय तथा “हस्वनदी श्रद्धाभ्यः सिर्लोपम्” (२।१।७१ ) से सि का लोप ।। १९५ । १९६. पुंसोऽनुशब्दलोपः [ २।२।४० ] [ सूत्रार्थ] घुट्- भिन्न स्वर तथा व्यञ्जन वर्णों के परवर्ती होने पर 'पुमन्स्' शब्दस्थ 'अन्’ भाग का लोप होता है ।। १९६ । [दु० वृ०] 'पुमन्स्' इत्येतस्य अनुशब्दस्य लोपो भवति अघुट्स्वरव्यञ्जनयोः । पुंसः पुंसा, पुम्भ्याम्, पौंस्नम्, पुंस्त्वम् | अघुट्स्वरव्यञ्जनयोरिति किम् ? पुमांसौ || १९६ । [दु० टी० ] पुंसो० । व्युत्पत्तिपक्षे पुनातेर्मन् सिरन्तो ह्रस्वः । पौंस्नम् इति । तस्येदम् इति स्नण् । बहवः पुमांसो ययोस्ते बहुपुंसी कुले । तदन्तविधिरत्र प्रकरणेऽस्तीति पुंसोऽलोप इति कृते "न पदान्त०" (का० परि० १० ) इत्यादिना अनुस्वारविधिं प्रति स्थानिवद्भावो नास्तीति । नैवम्, 'पुंस्यति - पुंस्यतः' इत्यत्र 'यिन्नाय्योर्नलोप एव इति नियमादनो लोपो न स्याद् इत्यन्ग्रहणम् | शब्दग्रहणं च सुखार्थम् । तथा नकारस्य ञकारः शकारेण क्रियत इति ||१९६ | [वि० प० ] "? पुंसो० । पौंस्नम् इति । पुंस इदमित्यर्थे “ स्त्रीपुंसाभ्यां नञ्- स्नणी इति तमादिनिपातनात् स्नण्प्रत्ययः । पुंस्त्वमिति भावे त्वप्रत्ययः ।। १९६ । [क० च०] पुंसो० । पुंसोऽनुशब्द इति क्रियतां लोप इत्यनुवर्तते । अन्शब्दो लोपमापद्यते इत्यर्थो भविष्यति किं लोपग्रहणेन ? सत्यम्, सुखार्थं लोपग्रहणम् || १९६ |
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy