SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् [वि० प०] अनु० । लुप्तविभक्तिकं पदमिति । लुप्ता विभक्तिर्यस्येति विग्रहे बहुव्रीहौ "शेषाद् वा" (अ० ५।४।१५४) इति कप्रत्ययः । इह यद्यपि इता लिङ्गं विशिष्यते तत्र विशेषणेन च तदन्तविधिः, तदापि साक्षाद इदन्तस्य सानुषङ्गप्रसङ्गो नास्ति । भूतपूर्व इदन्त इह गृह्यते स च इदनुबन्ध एवेति न्यायादित्याह --- इदनुबन्धस्य चेति । विदुष इति । 'विद ज्ञाने' (२।२७) शन्तृङ् । “वेत्तेः शन्तुर्वन्सुः" (४|४|४), अघुट्स्वरादौ' इत्यदिना वकारस्योकारः । वैदुषम् इति । विदषु इदमिति "तस्पेदम्" (२।६।७) इत्यण् । अक्रुञ्चेदित्यादि । क्रुञ्चतीति क्विम् । अत एव ज्ञापकात् क्वावप्यगुणलक्षणोऽनुषङ्गलोपो नास्तीति । 'कसि गतिशातनयोः' (२!४८) । अत एव वर्जनाद् इदनुबन्धानां नोऽस्तीति नकारागमः ।! १९५ । [क००] अनु० । इता लिङ्गं विशिष्यते इत्यादि ! ननु लिङ्गस्य कथम् इदनुबन्धता, धातोरिदनुबन्धत्वात् ? सत्यम् । यस्याः प्रकृतेर्धात्ववस्थायामिदनुबन्धत्वं तस्याः प्रकृतेर्लिङ्गावस्थायामपीदनुबन्धत्वं केन वायंतामिति ।। १९५। [समीक्षा] 'विद्वन्स् + शस्, महन्त - शस्, विद्धन्म -ई, महन्त + त' इस अवस्था में कातन्त्रकार को नकारलोप अनिवार्यतः करना पड़ता है, क्योंकि यहाँ 'विद्वन्म' आदि लिङ्ग नकारघटित माने गए हैं । पाणिनीय व्याकरण में नकारघटित प्रातिपदिक नहीं माने जाते, अतः वहाँ नकारलोप की आवश्यकता नहीं होती है। [रूपसिद्धि] १. विदुषः। विद्वन्स् + शस् । “अघुट्स्वरादौ" (२।२।४६) से व् को उ, प्रकृत सूत्र से नलोप, "नामिकरपरः" (२।४।४७) से स को तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से स् को विसगदिश । २. विदुषा | विद्वन्स् + टा ! पूर्ववत् व् को उ, नलोप, स् को ष् । ३. विदुषी । विद्वन्स् + ई । “नदायन्चि०"(२।४।५०) से ई-प्रत्यय, लिङ्गसंज्ञा, प्रथमाविभक्ति एकवचन 'सि' प्रत्यय तथा उसका लोप | ४. वैदुष्यम् । विद्वन्स् - यण् । विदुषो भावः । “यण च प्रकीर्तितः" (२।६।१) से यग् प्रत्यय, नलोप, “वृद्धिरादो सणे" (२।६।४९) से वृद्धि, लिङ्गसंज्ञा, सिप्रत्यय, अम्-आदेश।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy