________________
२६७
नामचतुष्टयाध्याये द्वितीयः सखिपादः [दु० टी०]
अम्० । गोशब्दस्य स्थानित्वेनानुवर्तनाद् अम्शसोरिति सप्तम्येव । दीर्घ इत्यादि । यदा गोशब्दः स्त्रियां वर्तते तदा नाम "स्त्रियामादा" स्यात् । पुंसि तु अकारलोपमापद्यते इति भावः । पूर्ववदप्रधानेऽपि गामतिक्रान्तम्, अतिक्रान्तान् वा 'अतिगुम्, अतिगून पश्य' इति ।। १९०।
[वि० प०]
अम्० । ननु ह्रस्वेऽप्यकारे कृते मध्ये "स्त्रियामादा' (२।४।४९) भविष्यति किं दीर्घग्रहणेत्याह - दीर्घ इति गोशब्दोऽयमुभयलिङ्गः । ततः पुंलिङ्गपक्षे आपत्ययो न स्यादिति भावः ।। १९०।
[क० च०]
अम् । पुंसि स्त्रियामादा न स्यादिति वृत्तिः । ननु कथमिदमुच्यते, यावता "स्त्रियामादा" (२।४।४९) इत्यनेन आप्रत्ययं विनापि गामिति सिध्यति । तथाहि अमि गावौ घुटीत्यनेन औत्वे सति आवादेशे कृते "अम्शसोरा" (२।२।३४) इत्यनेन वकारस्यादेशे कृते पुनर्दीर्घात् परलोपे कृते गामिति सिध्यति । तथा शसि परेऽवादेशे वकारस्य स्थानेऽनेनाकारे कृते समानलक्षणदीर्घत्वे 'गाः' इति सिध्यतीति ।
न च शस्यकारलोपो भवतीति वाच्यम्, अकारकरणसामर्थ्यात् । अन्यथा "गोश्च"(२।१।५९) इत्यनन्तरम् ‘अम्शसोरा' इति क्रियताम्, ततश्च पूर्वसूत्राल्लोपानुवृत्तौ गोशब्दस्यापि अम्शसोः परयोर्वकारस्य लोप इत्यर्थे साध्यं सिद्धम् । न चैवं कृते “डिरौ सपूर्वः" (२।१।६०) इत्यत्र गोशब्दस्य प्रवृत्तिर्भविष्यतीति वाच्यम्, प्रकृतत्वात् "हो च"(३।५।२४) इति ज्ञापकाद्वेति पत्रिकायां दर्शितत्वात् ? सत्यम् । उत्तरार्थं क्रियमाणमिहापि प्रतिपत्तिगौरवं भवतीति संक्षेपः ।।१९०।
[समीक्षा]
'गो + अम्, गो+शस्' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही आचार्य गोशब्दघटित ओकार को आकारादेश करके ‘गाम्, गाः' शब्दरूप निष्पन्न करते हैं । पाणिनीय प्रक्रिया के अनुसार गोशब्दघटित ओकार तथा अम्प्रत्ययघटित अकार के स्थान में आकारादेश विहित है - “औतोऽम्शसोः" (अ० ६।१।९३)।