________________
२६५
नामचतुष्टयाध्याये द्वितीयः सखिपादः 'येन विधिस्तदन्तस्य' (कात० प० ३) । इति वचनात् । तथा "युजेरसमासे नुर्पुटि" (२।२।२८) इत्यत्रासमानग्रहणम्, नैवम् । 'प्रकृतिवृत्तेः पुनर्वृत्तावविधिनिष्ठितस्य' (चा० प० पा० ५९) इत्यभ्युपगमात् । तथापि संबुद्धौ जसि चौत्वे कृते विधेरनिष्ठितत्वात् प्राप्नोति । ननु लक्षणप्रतिपदोक्तन्यायान्न भविष्यति, नैवम् । साध्यपात्रमिह दर्शितम्, तेनानेन वा को विशेष इति । अथवा गोः सम्बन्धी यो घुट् तस्मिन्निति समाससंबन्धिनि घुटि न भवतीति पक्षान्तरं दर्शयन्नाह - गोवुटि इति किम् ? ‘परमगौः' इत्यत्र समासेऽपि गोशब्द एव प्रधानमिति गोसंबन्धी घुड् भवत्येव । गोशब्द ओकारान्तोपलक्षणम् इति एके । तेन द्योशब्दस्यापि भवति यौः, यावी, यावः । तथोत्तरत्रापि 'यां याः पश्य' इति । “वाम्या" (२।२।२७) इति सूत्रं विदधद् उपलक्षणं न मन्यते भगवानयमिति । अन्यथा द्योशब्देन द्यामिति भविष्यति । दिवशब्देन च दिवमिति ।। १८९।।
[वि० प०]
गोः । चित्रा गौर्यस्येति विग्रहे गोरप्रधानस्यान्त्यस्येत्यादिना ह्रस्वत्वे गौणोऽपि गोशब्दो विद्यते, ततः कस्येह ग्रहणम् इत्याह – गोर्मुख्यस्येत्यादि । ‘गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः' (का० परि०२) इत्यर्थः । अथवा श्रुतत्वाद् गोशब्दसंबन्धिन्येव घुटि वर्तते, न तु समाससंबन्धिनीति प्रत्युदाहरणेन पक्षान्तरं सूचयन्नाह - गोर्घटीत्यादि । ननु किमर्थमिदमुच्यते ह्रस्दत्वे सति गोशब्दे एवायं न भवति चेत्, नैवम् । एकदेश विकृतस्यानन्यवद्भावात् प्राप्नोति । किं च संबुद्धौ जसि चौत्वे गोशब्द एवायं वर्तते ।।१८९।।
[क० च०]
गोः । गोर्मुख्यस्यौरिति वृत्तिर्मतान्तरेणेति कुलचन्द्रः । स्वमते गौर्वाहीकः इति उपमानवृत्त्या गौणेऽपि दर्शनात्, तन्नेति महान्तः ।मुख्यम् अनुपसर्जनम्, ततो गौर्बाहीक इत्यत्रापि स्यात् । यतः पाणिनिना समास एव उपसर्जनसंज्ञाभिधानं क्रियत इति । अथवा मुख्यस्य गोशब्दस्य गौरिति पदं निष्पाद्य पश्चात् पदाध्यारोपाद् बाहीके वृत्तिरिति भाष्यकारवचनात् । गोर्घटीति किमिति वृत्तिः। गोः संबन्धिनि घुटीति किमित्यर्थः । न शब्दाश्रये गौणमुख्यव्यवहार इति न्यायाद् गौणस्यापि गोशब्दस्य