________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
२६१ अथोभोर्निमित्तयोरुत्पन्न उभयभाग् भवति । नैवम् । यथा मृत्पिण्डस्य स्थाने घटो दण्डादिभिर्निमित्तैरुत्पन्नोऽपि मृत्पिण्डस्यैव घट इति संबन्धः । दण्डादयस्तु निमित्तमात्रं लोकोपचारात् सिद्धम्, तथात्रापीति | स्यशब्दाद् विभाषामिच्छन्ति - करिष्यती, करिष्यन्तीति ।। १८७।
[वि० प०]
तुदभा० । तुदधातोर्व्यञ्जनान्तत्वात् परगमने सति 'तुदभादिभ्यः' इति निर्देशन भवितव्यम्, तत्कथमयं विसन्धिनिर्देश इत्याह - तुद इत्यादि । तुद इत्यदन्त इत्यादि । अनुक्रियते इत्यनेनाकारस्य कार्यार्थत्वं दर्शयति । अनुकरणानामनन्यार्थत्वान्न पुनरकार उच्चारणार्थस्तेन विनाप्युच्चारयितुं शक्यते । कार्यं पुनरग्रे वक्ष्यति । नपुंसकाधिकारस्य प्रस्तुतत्वाद् औस्थानिके एव ईकारे प्राप्नोति न तु स्त्रियां विहित इति न चोद्यम्, यतो वर्णात् परः श्रूयमाणकारशब्दः स्वरूपस्यैव ग्राहको भवति । अन्यथा तकारमेव लाघवार्थमुच्चारयेदित्याह – तुदती, तुदन्ती स्त्रीति |
तुदधातोरकारान्तस्यानुकृतत्वाद् भादेश्च स्वभावादाकारान्तत्वात् तुदभादयोऽवर्णान्ताः सिद्धाः । ततस्तत्साहचर्याद् व्यावृत्तिरपि अवर्णान्तेभ्य एव भवतीति दर्शयति - पचन्ती, दीव्यन्तीति । ननु व्यावृत्तिबलाद् विकल्पो नाम मा भूदिति “अनुषङ्गश्चानुञ्चेत्" (२।२ । ३९) इति नित्यमनुषङ्गलोपः कथन्न भवति ? सत्यम् । अभ्यस्तादन्तिरिति सिद्धे यदनकारग्रहणं पूर्वसूत्रे, तदिहार्थमिति मन्तव्यम् । तेन तुदभादिभ्य एवान्तिरनकारको भवति, अन्येभ्यः पुनः सनकार एवेति व्यावृत्तिबलेन प्राप्तोऽपि नित्यलोपो बाध्यते । अनवर्णान्तेभ्यस्तु व्यावृत्तेरयोगात् “अनुषगश्चाक्रुश्चेत्” (२।२!३९) इति नित्यमनुषङ्गलोप: स्यादेव । यथा - ‘अदती, क्रीणती, कुर्वती' इत्यादि ।। १८७।
[क० च०]
तुद० । तुदभादिखण्डने पूर्वत्राभ्यस्तादन्तिरदिति सिद्धेऽनकारग्रहणं व्याप्तिबलादत्राभ्यस्तनिवृत्त्यर्थं वाच्यम् । अवर्णादिति वा कार्यम् । तुदादयश्च भादयश्च तुदभादयस्तेभ्यस्तुदभादिभ्य इति । ननु तुदश्च भादिश्चेति कथं न प्रतीयते ? सत्यम् । व्याप्तिन्यायादादिशब्दः प्रत्येकमभिसंबध्यते । यद् वा दन्शिसन्जिष्वन्जिरन्जीनाम् इति वचनादादिशब्दस्य प्रत्येकमभिसंबन्धः करिष्यते । अन्यथा यदि केवलस्य तुदो ग्रहणं