SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६० कातन्त्रव्याकरणम् [दु० टी० ] तुद० | तुद इति नायमकार उच्चारणार्थः, किन्तर्हि कार्यार्थः, यस्मादकारमन्तेरेणाप्युच्चारयितुं शक्यते । 'तुदभादिभ्यः' इति । समुच्चयात् पर आदिशब्दः प्रत्येकमभिसंबध्यते । तुदादिभ्यो भादिभ्य इति । तुदादय आगणात्ता', भादयो पापर्यन्ताः, वृत्करणात् । सत्यपि नपुंसकाधिकारे औस्थानिको नदादिविहितश्च ईकारो गृह्यते । वर्णात् परो हि कारशब्दः स्वरूपग्राहको दृष्टः । अन्यथा तकारेणापि लघुनिर्देशो भवत्येव । तुदभादयस्तावदवर्णान्तास्तद्व्यावृत्तिरप्यवर्णान्तेभ्य एव भवति, सादृश्यात् । तुदभादिभ्य एवान्तिरनकारको भवति, अन्येभ्योऽन्तिरनकारको न भवति । सनकार एवेत्यर्थ: । व्यावर्तने विभाषापि न संबध्यतेऽनर्थकत्वात् । तेन "अनुषङ्गश्चाक्रुञ्चेत्" (२१२ । ३९) इत्यपि बाध्यते । एतच्चानकारग्रहणसामर्थ्यादुपपद्यते । अनवर्णान्तेभ्यस्तु स्यादनुषङ्गलोपः । यथा – अदती, कुर्वती, क्रीणाती । मालेवाचरतीत्यायिः, आयेश्च लोपेऽनुविकरणे सति 'मालान्ती, वीणान्ती' इत्यत्र नकारस्य स्थितिरेव | ननु वर्णाश्रयोऽन्तरङ्गः, तुलभादिभ्यः शन्तृङ ईकारापेक्षयाऽनकारकत्वं बहिरङ्गम्, ततोऽन्तरङ्गे कृतेऽवयविधर्माभावात् तुदादिभ्यः परोऽन्तिरिति वक्तुं न युज्यते । अवयवावयविनोर्भेदे हि इदं पूर्वम् इदं परम् इति बुद्धिरुत्पद्यते, नान्यथेति ? सत्यम् | भूतपूर्वस्तदुपचारस्तुदादिभ्यः परो योऽन्तिः पूर्वमासीत् । एवं चेत्, 'दधती, जानती' इत्यादावपि व्यावृत्तिप्रसङ्गः । तत्राप्यवर्णादुत्तरोऽन्तिर्भूत एव । नैतदेवम् । इहान्त्यावयवेऽपि अन्तिशब्द उपचारात् । समुदायप्रवृत्ताः शब्दा अवयवेऽपि वर्तन्ते । यथा – ‘ग्रामो दग्धः, पटो दग्धः' इति । स चान्तेरेदावयवोऽन्तरङ्गे कृतेऽवर्णात् परो भवतीति । यद्येवं तदापि 'अदती, जानती' इति दुष्यति । यस्मादत्राप्यवर्णात् परेऽन्तिरवयवो भवतीति । तर्हि तुद इत्यकारविशेषणम् अनर्थकं स्यात्, व्यावृत्तेरभावात् । तुदादिभ्यो विहितोऽन्तिरिति ब्रूयात् । तस्मादन्तेरवयवाद् अकारात् पूर्वी योऽकारस्तस्मात् परो योऽन्त्यावयव इति । केचित् पुनरभ्यस्ताद् अन्तेरनकार इति पठित्वावयवावयविसंबन्धे षष्ठीं प्रतिपद्यन्ते । अन्तेरवयवोऽनकार इति, तत्र यदि पूर्वभाग उच्यते, घुटि व्यवहितेऽपि भवति, वचनात् | अथ परो भागस्तदाभ्यस्ताद् व्यवहितादपि वचनात् । अवयवलक्षणा षष्ठी पुनरुत्तरार्थैव | अथवा नात्र पूर्वपरयोरेकः क्रियते, किन्तु परलोपस्ततश्च 'एकदेशविकृतमनन्यवत् ं (कात० प० १ ) इति न्यायात् ' तुदादिभ्यः' परोऽन्तिरुच्यत एव ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy