SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाप्याये द्वितीयः सखिपादः २५१ कथमत्र न भवति, अन्तरङ्गत्वाद् ऊट चेत् तथापि ‘एकदेशविकृतस्यानन्यवद्भावात् प्राप्नोति ? सत्यम् । दिवशब्दस्याव्युत्पन्नस्यैव ग्रहणं लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (कात० प० पा० ७५) इति न्यायात् । सत्यपि स्यादिसंबन्धे सामान्यव्यञ्जने भवति, अन्यथा 'सुभोः' इति विदध्यात् । तावन्तरेण च स्यादावन्यद् व्यञ्जनमस्ति । 'दिवं गतो दिवो भावः' इति विग्रह: "यजनान्तस्य यत् सुभोः" (२।५।४) इत्यनेन स्वरेऽन्त्यत्वं प्राप्तम् अनेन व्यावय॑ते । दिवाश्रयो दिवौकस इति । ये न स्यादिति। परिशिष्टोऽत्र यशब्दोऽर्थवांस्तद्धित एव गृह्यते । दिवि यज्ञो पुयन इति भवत्येव । तदेतत् कथम्, लोकोपचारात् । दिवि भवं दिव्यम् । कथम् अद्यौ?र्भवति धुर्भवतीति च्वौ न दीर्घः स्यादिति तत्र “नाम्यन्तानां यण्०" (३।४।७०) इत्यादिसूत्रेऽन्तग्रहणस्य साक्षान्नाम्यन्तार्थत्वात् ।तकारः पुनरिहोच्चारणार्थ एव । तकारस्योच्चारणे प्रायो दृष्टं सामर्थ्यमिति । उरित्युच्यमाने रेफान्तोऽपि आशङ्क्येत । यस्त्वाह -उकारबलाच्च्वौ न दीर्घ इति तदा धुकामस्यापत्यं 'यौकामिः' इति वृद्धिं प्रति यल एव स्यात् ।। १८१। [वि० प०] दिव० । एकवर्णत्वादन्तस्य वकारस्योद् भवति - धुगतः, धुत्वमिति । 'दिवं गतः, दिवो भावः' इति वाक्यम् । इह सत्यपि स्यादिप्रस्तावे व्यञ्जनग्रहणबलात् सामान्यव्यञ्जने भवति । अन्यथा 'सुभोः' इति कुर्यात् । नहि सकार - भकारमन्तरेण स्यादेरन्यद् व्यञ्जनमस्तीति । स्वरे तु न भवति । दिवाश्रयो दिवौकसः इत्यत्र व्यावृत्तिबलात् "व्यजनान्तस्य यत् सुभोः" (२।५।४) इत्यनेनापि प्राप्तमुत्त्वं बाधते। ये न स्यादिति दिवि भवं दिव्यम् । दिगादिषु भवार्थे य इह दृश्यते । दिवि यज्ञो पुयज्ञ इति भवत्येव निरर्थकत्वादस्य यकारस्येति । पारिशेष्याद् अर्थवान् यकारस्तद्धित एवेति, तदेतत् कथमुच्यते "इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च" (२।६।४४) इत्यत्र प्रकरणबलात् तद्धित एव यकारोऽवसीयते स प्रत्ययत्वं न व्यभिचरतीति यत् तत्र प्रत्ययग्रहणम्, तद् विशिष्टसंज्ञावधारणार्थम् । तेन तद्धितयकारस्याघुट्स्वरत्वमध्यारोप्यते । ततोऽघुट्स्वरकार्यमेव तद्धिते ये प्रवर्तते न तु व्यञ्जनादिकार्यम् । एवं च सति टादिवत् तद्धिते य इति न वक्तव्यं भवतीति ।।१८१।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy