________________
कातन्त्रव्याकरणम्
आमि दीर्घ सनौ चेत् स्यात् कृते दीर्घे न नुर्भवेत् ।
वचनाद् यत्र तन्नास्ति नोपधायाश्च वर्मणाम् ॥ इति । [क० च०]
दीर्घ ० | " नृ बा " ( २ । ३ । २८) इति विकल्पविधानादिति । अयमभिप्रायःयद्यत्र विकल्पोऽनुवर्तते, तदाऽनेनैव 'नृणाम्, नृणाम्' इति रूपद्वयं सिध्यति । किं पुनर्विकल्पविधानेन " नृ बा" इत्यनेन । ननु कथमिदमुच्यते यतः 'सिद्धे सत्यारम्भो विधिर्नियमाय ' (कात० प० ५९ ) इति न्यायात् । अनेनैव विकल्पे सिद्धे यत् पुनः " नृ बा" ( २ । ३ । २८) इति विकल्पविधानं तद् ऋदन्तानां मध्ये नृ- शब्दस्यैव दीर्घो भवति, नान्येषामिति नियमः कथन्न स्यात्, तिसृचतस्रोस्तु नित्यं दीर्घे प्राप्ते " न नामि दीर्घम् " ( २। ३ । २७ ) इति वचनं संगच्छते ? सत्यम् । विकल्पानुवृत्तौ " नृ वा " ( २ । ३ । २८) इति नियमस्तदननुवृत्तौ विधिरतो 'विधिनियमसम्भवे विधिरेव ज्यायान्' (कात० प० पा० ८४ ) इति न्यायान्न नियमः ।
२३२
तथाहि वाग्रहणस्यानुवृत्तौ " नृ वा१ (२।३।२८) इति नियमः स्यात्, अननुवृत्तौ विधिरेवेत्यननुवृत्तिरेव कल्पनीयेति प्राञ्चः, व्याप्तिन्यायाद् वा | सागरस्तु - यदि नियमेनान्यत्र दीर्घाभावः साध्यते, तर्हि “न नामि दीर्घम् " ( २।३।२७) इति प्रतिषेधोऽनर्थकः स्यात्, प्राप्तेरभावात् । ननु तथापि नृशब्दस्य पुंलिङ्गत्वात् पुंलिङ्गानाम् ऋदन्तानां मध्ये नृशब्दस्यैव इति नियमः स्यात् । " न नामि दीर्घम् ” ( २। ३ ।२७) इत्यस्य तु स्त्रीनपुंसकयोश्चरितार्थत्वाच्चेदुच्यते, संनियोगशिष्टेति न्यायान्नपुंसकाधिकाराभावे वाशब्दो वर्तते इति भावः । न च नाम्यन्तमिति कथं वर्तते इति वाच्यम्, अकारान्तस्य " अकारो दीर्घ घोषवति" (२।१।१४ ) इत्यनेन सिद्धत्वान्नाम्यन्तस्य परिशिष्टत्वान्नाधिकारवशादिति शेषः । पञ्जीकृता तु " नृवा" (२।३।२८) इत्यादि यदुक्तं तत् प्रथमकक्षायाम् । दीर्घं नामीति । नच टादौ दीर्घे आमि न स्याद् इति वाच्यं वाक्यद्वयेन गौरवापत्तेः । नित्यत्वादिति । न च यथा दीर्घस्य नित्यत्वं तथा विहितविशेषणपक्षे न्वागमस्यापि नित्यत्वमित्याशङ्क्याह - परत्वादिति । कथं दीर्घस्य परत्वं सर्वत्रामि च नोर्विषयत्वेन तस्यावकाशाद् इत्याह - नित्यत्वादिति व्यस्तेनान्वयः । ब्याघ्रभूतिमतमवलम्ब्य द्वयोरेकत्र सावकाशत्वमिति केचित्, सूत्रपरत्वादित्यपरे । वृक्षाणाम् इत्यस्यैव तस्य विषये सावकाशत्वम् । वारीणाम् इति । अत्र "नामिनः स्वरे "