________________
२॥
नामचतुष्टयाप्याये बितीयः सविपादः सिध्यति । नैवम् । घोषवद्ग्रहणसामर्थ्याद् अन्यथा तत्र भ्योरिति विदध्यात् । तर्हि नाम्यनुवर्तनेन किं चेत् स्वरूपमेतत् । सनौग्रहणमित्यादि । अन्यथा परत्वात् प्रागेव दीर्घः स्यात् । कृते च दीर्घ नुर्न स्यात् । तत्र ह्रस्वग्रहणसामर्थ्यान्नुरागमश्चेत्, न । वृक्षाणामिति चरितार्थत्वात् । न च 'आगमादेशयोरागमविषिर्वलवान्' (कात० प० ४०) इति, 'पूर्वपरयोः परविषिर्बलवान्' (कलाप०, पृ० २२१, क्रम० ५०) इति बलाबलं बाधते । अत आह
आमि दीर्घ सनौ चेत स्यात् कृते दीर्धे न नुर्भवत् ।
बचनाद् यत्र तन्नास्ति नोपपायाश्च बर्मणाम् ॥ इति ।। १७१। [वि० प०]
दीर्घम् | सह नुना वर्तते इति सनुः, सहस्य सभावो ज्ञापित एव । सहग्रहणं किमर्थम्, नामीत्युक्तेऽपि सनाविति गम्यत एव ।नकारयुक्त आमि नामीति व्याख्यानेऽन्यस्य नकारस्याभावात् ? सत्यम् ।व्याप्त्यर्थं सहग्रहणम्, यावान् सह नुना वर्तते तावत्यामीति । तेन नपुंसकमिह न संबध्यते, अतः पुंस्त्रियोरपि दर्शयति-अग्नीनाम्, धेनूनामिति । तथाप्यनर्थकं सहग्रहणं "न नामि दीर्घम्" (२।३।२७) इति तिसृचतस्रोर्दीर्घप्रतिषेधादनुमीयते । नपुंसकस्य निवृत्तिरिति चेत्, नैवम् । 'प्रियतिसृणां कुलानाम्' इति नपुंसके तस्य प्रतिषेधस्य चरितार्थत्वात् । एवमपि "अनहुन्नहिबन्सीनाम्" (२।३४४) इति दीर्घनिर्देशान्नपुंसकनिवृत्तिरवसीयते इति चेत् तर्हि प्रतिपत्तिगौरवनिरासामिव सहग्रहणमिति । वाशब्दोऽप्यत्र न वर्तते "नृ वा" (२।३।२८) इति विकल्पविधानात् ।
___ अथ किमर्थं सनौग्रहणम् "दीर्घमामि" इत्युच्यताम् ‘आगमादेशयोरागमविपिलवान्' (कात० प० ४०) इति न्वागमे कृते अर्थात् सनाविति गम्यते । न च व्यवधानताऽस्ति "तृतीयादौ तु परादिः" (२।१।७) इति वचनाद् इत्याह - सनौग्रहणमित्यादि । तेनोत्तरसूत्रे 'वर्मणाम्' इत्यत्र सनुत्वाभावे सति “नान्तस्य चोपपायाः" (२।२।१६) इति दी| न भवति । यद्येवमिह किमर्थमित्याह - कृते चेति । अयमभिप्रायः. नित्यत्वात् परत्वाच्च प्रागेव दीर्घः स्यात् ततश्च कृते दीर्घ ह्रस्वाभावान्न नुर्भवेत् । तत्र ह्रस्ववचनान्नुरागमश्चेत् , तदयुक्तम् । यत्र नाम्यन्तत्वं नास्ति तत्र चरितार्थं ह्रस्ववचनम् । वृक्षाणाम् इति । अत्र नित्यत्वात् परत्वाच्च प्राप्तं दीर्घ कथं नुबधेित । तस्मादिहापि कृते न्वागमे दीर्घार्थं सनौग्रहणम् । तथा चोक्तम् -