SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाच्याये बितीयः सविपादः २२३ नामेषां निवृत्त्यर्थः । तेन ‘अस्थिना छात्रेण' क्रियावचनोऽप्यस्थिदधिशब्दः । दधातीति दधि,- "आदृवर्णोपघालोपिनां किः च" (४।४।५३) इति । ताच्छील्ये – दधिना द्विजेनेति । नाम्यधिकारोऽपि तदन्तविधावेव प्रयोजयति यथासंभवम् । तेन "सक्थ्यक्षिणी स्वागे" (२।६।७३-५०) इति राजादौ राजादीनामदन्तत्वाद् एकदेशविकृतस्यानन्यवद्भावाद् इति न्यायादकारस्य सक्थ्यक्ष्णोरवयवस्य न भवति । प्रियं सक्थ्यस्य, पद्मे इवाक्षिणी अस्येति बहुव्रीहिः- प्रियसक्थेन पद्माक्षेण । अन्तशब्दः कथमिहागमार्थो न भवति, अन् भवत्येषामन्त इति, नैवम् । अस्थ्यादीनामन्तो वर्णो यः सोऽन् भवति इत्यस्मादेव निर्देशाद् अवसीयते । नन्वादेशेऽपि कृते “अवमसंयोगात्" (२।२।५३) इत्यकारलोपेन भवितव्यम्, वर्णान्तस्य विधिरित्यन्तग्रहणं च न विधेयमित्याशङ्क्याहअकारेत्यादि । “ईयोर्वा" (२।२।५४) इति पक्षेऽकारस्य श्रवणं यथा स्यादित्यर्थः । टादाविति किम् ? अस्थिनी, दधिनी । स्वर इति किम् ? अस्थिभ्याम्, दधिभ्याम् ।। १६९। [वि० प०] अस्थि० । नपुंसकलिङ्गानां नाम्यन्तानामित्यधिकारवशाद् इत्युक्तम् । अथ किमर्थमिदमुच्यते, न ह्यस्थ्यादयो नपुंसकत्वं नाम्यन्तत्वं वा व्यभिचरन्ति, सत्यम् । एषां संज्ञारूपाणामस्त्येव नपुंसकत्वाभिचारस्तत्र मा भूदिति । यथा ‘अस्थिना छात्रेण' इत्यादि । किं च दधातीति दधि "आद् ऋवर्णोपधालोपिनां किर्के च" (४।४।५३) इति किप्रत्ययान्तः क्रियावाचकोऽपि दधिशब्दस्ताच्छील्ये दृश्यते । यथा दधिना द्विजेनेति नाम्यन्तविशेषणमपि तदन्तार्थम् । अन्यथा "सक्थ्यक्षिणी स्वाङ्गे" (२।६।७३-५०) इति राजादित्वाद् अत्प्रत्यये नामिनो लोपे सति एकदेशविकृतस्यानन्यवद्भावादकारान्तस्यापि प्राप्नोति । यथा प्रियं सक्थ्यस्य, पद्मे इवाक्षिणी यस्येति विग्रहे 'प्रियसक्थेन, पाक्षेण' इत्यादि । इह पञ्चमीनिर्देशस्याभावाद् विहितविशेषणाभावे तदन्तविधिना अस्थ्यन्तस्यानपुंसकवृत्तेरपि स्यादित्याह - अस्थनेत्यादि । अस्थ्यतिक्रान्तेन, दध्यतिक्रान्तेन इति विग्रहः केवलस्य च व्यपदेशिवद्भावात् । अथ किमर्थम् अन् विधीयते, नकार एवोच्यताम्, यतः कृतस्याप्यकारस्यायम् असंयोगाद् इत्यादिना लोपेन भवितव्यम् । एवं सत्यन्तग्रहणमपि न कृतं स्यात् ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy