________________
कातन्त्रव्याकरणम्
( कात० प० ३४ ) इति प्रागेव लोपः । तत्र हि लोप इति अदर्शनमात्रं विवक्षितं पश्चात् तदुक्तप्रतिषेधान्नुरागमो न भवति । यद्येवं तर्हि तत्र लुगेव क्रियताम् इह स्वरग्रहणं ज्ञापयति – क्वचिल्लुक्यपि प्रत्ययकृतं भवतीति । नैवम् | स्वरग्रहणमुत्तरार्थं कथं ज्ञापनार्थं स्यात्, तस्माल्लोपग्रहणे सति न च तदुक्तग्रहणम् अस्मिंश्च व्यवस्थितवाऽनुवृत्त्या नाम्यन्तस्य वा तदुक्तमुपपद्यते । एवन्तर्हि स्वरग्रहणेऽत्राक्रियमाणे प्रस्तुतस्यादिसंबन्धस्य विहितविशेषणमेव गरीय इति यथान्यासमेवाश्रयः ।। १६८ ।
[वि० प० ]
नामिनः । 'नामिनः' इति पञ्चम्या विहितविशेषणमाख्यायते, नाम्यन्तान्नपुंसकलिङ्गाद् विहिते स्वरे नुरित्यर्थः । तेनाकारान्ताद् विहिते स्वरे न भवतीत्याह - नामिनः स्वर इति किम् ? कुलयोरिति । ननु कथमत्र प्राप्तिर्येनेदमुच्यते । न ह्यत्र स्वरों विहितः किन्तर्हि स्वरादिप्रत्ययः, न चात्रादिग्रहणमस्ति । तेन 'वारिणा, वारिणे' इत्यादिस्वरे प्राप्नोति तत्कथम् ओसि प्रसङ्गः ? सत्यम् । समुदायविधाने ऽवयचोऽपि विहित एवेति 'अर्थवद्ग्रहणे नानर्थकस्य' (कात० प० ४ ) इत्ययं पुनरनित्य एव न्यायः इति । अथवा 'वर्णग्रहणे तदादौ कार्यसंप्रत्ययः' (कलाप०, पृ०२२२, क्रम० ७२ ) इहाश्रीयते इति, तेन नाम्यन्ताद् विहिते स्वरादावित्यर्थः । यत्र स्वरमात्रं तत्र व्यपदेशिवद्भाव एवेति । तेन 'वारिणोः, मधुनो:' इत्याद्यपि सिद्धमेव || १६८।
[क० च०]
नामिनः । नामिनः स्वर इति किम् ? कुलयोरिति वृत्तिः । विहितविशेषणं किमर्थमित्यर्थः । ननु तथापि नपुंसके द्वयोः कुलयोरित्यत्र नाम्यन्ताद् विहिते ओसि परे न्वागमः कथं न स्याच्चेत्, नैवम् | नाम्यन्ताद् विहिते स्वरे नुर्भवन् नाम्यन्तादेव भवति । अत्र त्यदाद्यत्वेन नाम्यन्तताविरह एव । न च वाच्यम्, प्रागेव नुः कथन्न स्यात्, यावता परत्वान्नित्यत्वादन्तरङ्गत्वाच्च त्यदाद्यत्वस्यैव विषयत्वात्, तदसं । "ओसि च” (२।१।२०) इत्येत्वे सति नाम्यन्तान्नुर्भवतु । नैवम्, “त्यदादीनाम” (२।३।२९) इत्यत्र विषयसप्तम्याश्रयणीया । ततश्चानुत्पन्नायामेव विभक्तौ त्यदाद्यत्वेऽकारान्तादेव विभक्तिर्विहिता न तु नाम्यन्तादिति श्रुतव्याख्यानात् कुतो न स्यात् ।
२२०
यद्येवं तर्हि कथं तत् कुलमिति सिध्यति, यावता विभक्ताविति विषयसप्तमीत्वादग्रे त्यदाद्यत्वे पश्चात् स्यमोर्विहितत्वात् “अकारादसंबुद्धौ युश्च" (२।२।७) इत्यनेन