________________
२१३
नामचतुष्टयाण्याये द्वितीयः सखिपादः [दु० टी०]
जस्० । जसा सहचरितस्य शसो ग्रहणात् स्यादिसंबन्धाद् वा शतं देहि 'शतशो देहि' इत्यत्र न भवति "बाल्पार्थात् कारकाच्छस् वा माझ्गल्ये गम्यमाने" (२।६।४० - ८ तमादिगणः) । पण्डकाः, पण्डकान् । षण्डकाः, षण्डकान् पश्यतीति । नपुंसकेऽपि वस्तुनि शब्दकृतं पुंस्त्वं लोक्तः सिद्धम् । तथा च - "स्त्रीवेषधारी पुरुषो नर्तको अकुंश उच्यते"। स्त्रीत्वेऽपि प्रवृत्तिनिमित्ते शब्दकृतपुंस्त्वबलात् "स्त्रियामादा" (२।४।४९) न भवति । ननु शिरित्येकवर्णः कथमिह सर्वस्य भवति । न च अनुबन्धकृतमनेकवर्णत्वं गृह्यते - उच्चरितप्रध्वंसिनो ह्यनुबन्धाः शकारोपादानादिति चेत् तदयुक्तम् ।शौ नियमे शकारो विशेषणार्थः । “इन्हन्पूषार्यम्णां शौच" (२।२।२१) इति कृते 'सुदण्डिनि' इत्यत्रापि दीर्घः स्यात् । एवं तर्हि 'घुटः शिः' इति सिद्धे जस्शसोर्ग्रहणं सवदिशार्थम्, जस्शसोरुच्चारणप्रसङ्गे शिर्भवतीत्यर्थः ।
ये तु ‘सन्ध्यक्षराणि' इति, 'व्यञ्जनानि' इति ज्ञापकात् सवदिशं प्रतिपद्यन्ते, तेषां नपुंसका घुट्शब्दः श्रुतः सामर्थ्याज्जस्शसोहिक इति प्रतिपत्तिगौरवनिरासार्थमेव न पुनर्विभक्त्यन्तनिरासार्थम् । अष्टौ फलानीत्यत्र द्वयोर्नित्यत्वे परत्वादौत्वमेव । किं च 'सकृद् बाधितो विधिर्बाधित एव' (कात० प० ३६) इति न्यायात् ।। १६६ ।
[वि० प०]
जस्शसो० । ननु सकारोऽयमनुबन्धस्ततश्च 'नानुबन्धकृतम् अनेकवर्णत्वम्' (व्या० प० वृ० १२) वक्तुं युज्यते इति "इन्हन्पूषार्यग्णां शौच" (२।२।२१) इत्यस्य विशेषणत्वात् । अन्यथा शकारस्याभावे सति “औ च" इति निर्देशस्य सप्तम्येकवचनेऽपि समानत्वाद् ‘दण्डिनि' इत्यत्र ङावपि दीर्घः स्यात् । नैवम्, जस्शसोर्ग्रहणमेव सवदिशं बोधयति । अन्यथा 'घुटः शिः' इत्येवं ब्रूयात् । न चैवं सति वचनान्तरस्य प्राप्तिः । 'नपुंसके जसेव घुट्' इति नियमाद् अन्यस्य घुट्त्वमेव नास्ति ।।१६६।
[क० च०]
जस्० । ननु "बहल्पार्थात् कारकात्" (२।६।४० - ८ तमादिगणः) इत्यादिना कृतस्य शसः कथं न दर्शितम् ? सत्यम् । जसः साहचर्याद् विभक्तिभूतः शसेव