________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
२११
[दु० वृ०]
सर्वस्मान्नपुंसकलिङ्गात् पर औरीमापद्यते । कुण्डे, पयसी ।। १६५ ।
[दु० टी०]
औ० ० । ईमिति अम आदिलोपः सुखनिर्देशाय । अनन्तरस्य विधिः प्रतिषेधो वेति न्यायादनन्तरादेवान्यादेरौरिमापद्यते ' अन्ये - कतमे' इत्याशङ्क्याह- सर्वस्मादिति । यस्माद् ‘विशेषातिदिष्टः प्रकृतं न बाघते ' ( कात० प० १९ ) इति न्यायमनुसरन् दीर्घमीकारं कृतवान् । अन्यथा ह्रस्वेऽपि कृते एत्वे सति सिद्धं भवति । प्रकृतस्यादिसंबन्धाद् विहितविशेषणाद् वा । दध्यौपगवः । इः कामः, उरीशः, तत्र तिष्ठति - दध्यौ, मध्वौ । ङिरौ सपूर्वः ।। १६५।
[वि० प० ]
औरीम्। ईम् इति सुखप्रतिपत्त्यर्थम्, सूत्रत्वाद् अम आदिलोप उच्यते । यदि पुनरिहानन्तरत्वादन्यादिरेवानुवर्तते तदा दीर्घकरणमनर्थकमेव स्यात् । अन्यादेरकारान्तत्वाद् एत्वे सति विशेषाभाव इति ह्रस्वमिकारमेव कुर्वीत । न चैवं कृतम् अतः सामान्येन नपुंसकमेव प्रवर्तते इत्याह – सर्वस्मादिति ।। १६५ ।
-
[क० च०]
औरीम्। सुखप्रतिपत्त्यर्थमिति । ननु कथमिदमुक्तं यावता आदिलोपाभावे य आदेशः कथन्न स्यात्, “ पदे तुल्याधिकरणे” (२।५।५) इति ज्ञापकात् । ईमित्यादि । दुखं चैतद् यदि औरीरिति क्रियते, तदा अभेदोपचारेण कष्टं स्यात् । ननु “ स्त्रियामी - विरामैकाच् स्वयोनिप्राणिनाम च" (अ०को० ३।५।२ ) इत्यमरकोशदर्शनाद् ईकारस्यैकस्वरत्वेन स्त्रियां वृत्तित्वाद् “अम्शसोरादिर्लोपम्” (२।१।४७) इत्यनेनादिलोपस्य प्राप्तत्वात् कथमुक्तं सूत्रत्वादिति ? सत्यम्, शब्दानुकरणस्य स्वभावात् पुंलिङ्गत्वेनास्य विषयत्वात् “स्त्रियामीद्" इत्यभिधानवचनबाधा क्रियते । तथा च अमरः - 'लिङ्ग्ङ्गशेषविधिर्व्यापी विशेषैर्ययबाधितः' (अ० को ० ३ | ५ | २ ) इति । तस्मादीकारस्य पुंस्त्वादमि परे यमिति रूपप्रसक्तौ सूत्रत्वाद् इति यदुक्तं तद् युक्तमिति । दीर्घकरणमनर्थकमिति । ननु कथमिदमुच्यते यावता विसन्धिश्रवणमेव प्रयोजनं भविष्यति । नैवम्, दीर्घकरणस्य 'पयसी' इत्यादी सामान्यानुकर्षणे सार्थकत्वाद् विसन्ध्यर्थम् "अबर्ण इवर्णे ए" (१।२।२) इत्यादिकस्य बाधाकल्पनेनानौचित्यमिति ।