________________
नामचतुष्टयाप्याये द्वितीयः सखिपादः
२०१ वा' एकतरं पश्यति । अन्यादेरिति किम् ? त्वं तिष्ठति, त्वं पश्यति । कस्यचिन्मते त्वशब्दस्तान्त एव गणे पठ्यते तदा वृच्छब्देनापि किं तान्तत्वादयमेवान्तर्गणक इव निवारको न चातिक्रम्यादिशब्दः प्रवर्तते चरितार्थत्वात् । तदा नेमम् इति प्रत्युदाहरणम् ।
यस्तु गणपाठमनाश्रयन्नादिशब्दव्यवस्थावचनमभ्युपगम्य एकतरं वर्जयति, तस्यापि अन्यदतिक्रान्तं कुलमिति अत्यन्यम्' इति न सिध्यति, विहितविशेषणबलात् । परमं च तदन्यच्चात ‘परमान्यत्' इति प्रधानत्वादन्यशब्दादेव विहितौ स्यमौ । यदा संज्ञायां वर्तते अन्यं नाम कुलम् इति तदापि नैव व्यवस्थाबलात् । तुशब्द इत्यादि । 'तु' इत्यविभक्तिकोऽयं निर्देशः । एकेनैव तुशब्देन सिद्धे पुनस्तुशब्दो व्यक्तिदर्शनावधारणार्थः संबुद्धावपि भवति । अव्ययो वा तुशब्दोऽसंबुद्धिनिवृत्तावनेकार्थत्वात् । ईयकारयोश्चाविधानाद् अन्यस्येदमन्यदीयम् । अन्यस्य कारकम् अन्यत्कारकम् । "अषष्ठीतृतीयान्तस्य चाशीरास्थिताशास्थारागोत्सुकोतिषु समासे" (कात० परि०- सं० १३१)। अन्यस्निन्नाशीः अन्यदाशीः, अन्यदास्थितः, अन्यदाशा, अन्यदास्था, अन्यद्रागः, अन्यदुत्सुकः, अन्यदूतिः । यथासंबन्धं समासः कर्तव्यः । अषष्ठीतृतीयान्तस्येति किम् ? अन्यस्याशीः, अन्याशीः । अन्यस्यास्थितः, अन्यास्थितः । अन्येनाशीः, अन्याशीः । अन्येनास्थितः अन्यास्थित इत्यादि । अर्थे तु वा । अन्यदर्थः अन्यार्थः । इहापि यथायोगं समासः ।। १६४।
[वि० प०]
अन्या० ।अन्यादिरयं सर्वनामान्तर्गणः पञ्चसंख्यापरिच्छिन्न एव, तत्र वृत्करणात् । 'अन्य, अन्यतर, इतर, डतर, डतम' अत्र त्रीणि लिङ्गानि । डतरडतमौ प्रत्ययौ अतस्तदन्तस्य दर्शयति- 'कतरत, कतमत्' इति । एवं 'यतरत्-यतमत्' इत्याद्यपि द्रष्टव्यम् । तमादित्वात् “यत्तदेकेभ्यो द्वयोरेकस्य निर्धारणे उतरः, वा बहूनां जाती उतमः"। तौ किम इति । गणकृतमनित्यमिति 'एकतरं तिष्ठति, एकतमं पश्य' इत्यत्र न भवति ।।१६४।
[क० च०]
अन्यादेः । “नान्यत् सार्वनामिकम्" (२।१।३३) इति वचनाद् अतद्गुणसंविज्ञानबहुव्रीहि शङ्कनीयः ।। १६४।