________________
कातन्त्रव्याकरणम्
एवमुत्तरत्र सूत्रेऽपि प्रतिपत्तव्यम् । अन्यः पुनराह - इयुव्स्थानौ च ह्रस्वौ च प्रवृत्तौ च प्राक् प्रवृत्तेः स्त्रीवचन एवेति । अतिश्रियै, अतिभ्रुवै ब्राह्मण्यै । क्व मा भूत् - अतिश्रिये, अतिभ्रुवे ब्राह्मणाय । अतिशकट्यै, अतिधेन्वै ब्राह्मण्यै । क्व मा भूत्- अतिशकटये, अतिधेनवे ब्राह्मणाय । अपर आह - इयुव्स्थानौ च ह्रस्वौ च प्रवृत्तौ प्राक्प्रवृत्तेरस्त्रीवचन एव - अतिश्रियै, अतिभ्रुवै ब्राह्मणाय । क्व मा भूत् - अतिश्रिये, अतिभ्रुवे ब्राह्मण्यै । अतिशकट्यै, अतिधेन्वै ब्राह्मणाय । क्व मा भूत्अतिशकटये, अतिधेनवे ब्राह्मण्यै । तदस्माभिरुभयं प्रमाणमित्युपचारेण गृह्यते । इयुव्स्थानाविति वचनाद् यत्व - वत्वस्थानयोर्न भवति | आधीनां प्रधीनां ब्राह्मणीनाम्, वर्षाभूणाम्, पुनर्भूणाम् । तथोत्तरत्रापि । आध्यै, प्रध्यै, वर्षाभ्वै पुनर्ध्वे । आध्यायति, प्रध्यायति, वर्षासु भवति, पुनर्भवतीति क्विप् । स्वभावादेते स्त्र्याख्याः । न च वक्तव्यम्अवयवावत्रापीयुव्स्थानाविति । अनेकाक्षरयोर्लिङ्गयोरीदूतोर्धात्वोरसंयोगात् परयोरिति विशेषाद् इयुव्स्थान इति निश्चितम् । व्यावृत्तिबलाच्च परं नित्यमपि यत्ववत्वविधिं बाधित्वा नदीकार्यमेव । प्रत्युदाहरणमिह मतान्तरेण प्रदर्शितम् । संग्रहणपक्षे तु यवक्रियाम्, कटप्रुवाम् इत्युक्तम् । ग्रामण्यादयो हि स्वभावतः पुंल्लिङ्गाः । स्त्रीत्वप्रतीतिस्तु स्त्रीशब्दसान्निध्यात् प्रकरणत्वाद् वा । षष्ठीबहुवचनमेवात्र व्याख्यानतो विशेषार्थप्रतिपत्तेरिति ।। १६० ।
[वि० प० ]
१९६
"
स्त्र्याख्या०। इयुव्स्थानाविति इयुवौ तिष्ठतो ययोस्ताविय्-उव्स्थानौ तौ पुनः पारिशेष्यादिकारोकारौ । ननु कथमेतद् यावता साक्षात् सूत्रे इयुवावेव निर्दिष्टी, अतस्तयोरेव नदीवद्भावो भवितुमर्हति न सूत्रे स्थानग्रहणमस्ति, येनैवमुच्यते । अतश्च इयुवादेशयोः कृतयोर्नदीवद्भावे न्वागमे सति ' श्रिय्नाम्, भ्रुनाम्' इत्यनिष्टरूपं प्रसज्यते इत्ययुक्तम् । नदीवदिति । बत्करणं हि सादृश्यार्थम् । तच्च सादृश्यम् ईकारोकाराभ्यामेव संभवति, कुतोऽन्यत्र प्रसङ्गः । कथं पुनरियुवस्थानयोरीदूतोः स्त्र्याख्यत्वं न खलु स्त्रियामनयोर्विधानमस्ति, अपि तु समुदायेन शब्द एव स्त्र्याख्य इति । न देश्यम्, स्त्र्याख्यावयवोऽपि स्त्र्याख्य इत्युपचारात् । यथा 'ग्रामो दग्धः, पटो दग्धः ' इति ग्रामाद्येकदेशे ग्रामादिशब्दः । श्रीणाम्, श्रियामिति । भज श्रिञ् सेवायाम्, क्विप् । वचिप्रच्छिश्रिद्रुस्रुज्वां क्विब् दीर्घश्चेति । नदीवद्भावपक्षे “आमि च नुः "