________________
नामचतुष्टयाध्याये बितीयः सविपादः
१९५ २. स्त्रियै। स्त्री + उ । प्रकृत सूत्र से नदीवद्भाव, “नया ऐ आसासाम्" (२।१।४५) से छे को 'ऐ' आदेश, "स्त्री च" (२।२।६१) से धातुवद्भाव तथा "ईदूतोरियुवौ स्वरे" (३।४।५५, ५६) से ईकार को इयादेश ।
___३. स्त्रीणाम् । स्त्री + आम् । प्रकृत सूत्र से नदीवभाव, “आमि च नः" (२।१।७२) से 'नु' आगम तथा "रवणेभ्यः०" (२।४।४८) से नकार को णकारादेश ।। १५९।
१६०. स्त्र्याख्यावियुवौ वाऽऽमि [२।२।४] [सूत्रार्थ]
षष्ठीविभक्ति-बहुवचन 'आम्' प्रत्यय के परवर्ती होने पर जिनके स्थान में इय्-उव् आदेश प्रवृत्त होते हैं तथा जो स्त्रीत्व अर्थ के अभिधायक हैं - ऐसे ईकारऊकार का नदीवभाव विकल्प से होता है ।।१६०।
[दु० वृ०]
स्त्र्याख्यावियुद्स्थानावामि परे नदीवद् भवतो वा । श्रीणाम्, श्रियाम् । भ्रूणाम्, ध्रुवाम् । स्त्र्याख्याविति किम् ? यवक्रियाम्, कटपुवाम् ।।१६०।
[दु० टी०]
स्त्र्याख्या० ।इयुवौ तिष्ठतो ययोस्तावियुव्स्थानौ, तौ पुनरीदूतौ धातोरवयवाविति । तदेतत् कथमिह स्थानमन्तरेण लभ्यते इयुवोरेव नदीवभावात् 'श्रिय्नाम्, भ्रनाम्' इत्यनिष्टरूपं स्यात् । न चेयुवाश्रयत्वाद् इयुवावित्युपचारो मुख्ये सति युज्यते । सत्यम्, वद्ग्रहणं हि सादृश्यार्थम् । तच्चेकारोकारोभ्यामृते न संभवतीति न विरुध्यते । भज श्रिञ् सेवायाम् "श्रिद्रुसुमुज्वां क्विप्, दीर्घश्च" इति क्विबन्तत्वाद् धातुत्वं न जहाति इति धातुत्वं श्रीशब्दस्य । श्रियामित्येवं लोके इष्यते । श्रीणाम् इति छन्दस्येव व्यवस्थितविभाषयेत्येके । “भ्रमेश्च (२।३०) डू: औणादिकः-भ्रूः। “पूर्षातुवत्" (२।२।६०) इत्युवाश्रयो भवति । कथं पुनरियुवौ स्त्र्याख्यौ, स्त्र्याख्याववयवावपि, स्त्र्याख्यावित्युपचारात् । तेन श्रियं ध्रुवमिच्छतीति यिन्, ततः क्विप् । “बोळजनेऽये" (४।१।३५) इति यलोपः । 'श्रीणाम्, भ्रूणाम् पुरुषाणाम्' इत्यपि भवति । तथा ‘अतिश्रीणाम्, अतिभ्रूणां स्त्रीणां पुरुषाणां वा' ।