SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १८1 नामचतुष्टयाप्याये प्रथमो धातुपादः [दु० वृ०] कतेः संख्यायाः षकारनकारान्तायाश्च जस्-शसोलुंग भवति । कति, कति । षट्, षट् । पञ्च, पञ्च ।। १५५। [दु० टी०] कते० । चकारः ष्णान्ताया इत्यनुकर्षणार्थ इत्याह - कतेः संख्यायाः ष्णान्तायाश्चेति । का संख्या एषामिति संख्यावृत्तेः किमो डतिर्निपात्यते, सद्यआद्यत्वात् । अत्रापि षष्ठीयं कतेः संख्यायाः ष्णान्तायाः संबन्धिनोर्जस्-शसोलुंग् इति । तेन प्रियाः षड् येषां प्रियाः पञ्च येषामिति विग्रहे प्रियषषः, प्रियपश्चानः, प्रियपज्ञः पश्येति । एवं प्रियाष्टान्, प्रियाष्टानः, प्रियाष्ट्नः पश्येति शसि “अवमसंयोगादनो लोपः" (२।२। ५३)। औ तस्माज्जस्शसोरिति कृतत्वादेवाष्टन इति । प्रियाश्च ते षट् चेति । प्रियाश्च ते पञ्च चेति विग्रहे 'प्रियषट्, प्रियपञ्च' चेति भवत्येव संख्यायाः प्रधानत्वात् । यत्तद्भ्यामपि डतिरित्येके। ताभ्यामपि जस्शसोलुंग् इति । तेन ‘यति ते नाग शीर्षाणि तति ते नाग वेदनाः' इति । 'लुग्लोपे न प्रत्ययकृतम्' इति "नान्तस्य चोपपायाः" (२।२।१६) घुटि दीर्घो न भवति, कतेरेत्वं च न जसीति । ननु ‘कतेश्चासोलुंग्' इति कथन्न विदध्यात् । संख्यायाः प्रधानत्वाच्च ङसिङसोरुत्पत्त्यभाव एव । षडस्यति, पञ्चास्यतीति यदि क्विब् दृश्यते, विभक्तिसंबन्धान भविष्यति । तर्हि जस्शसोर्ग्रहणं सुखप्रतिफ्त्यमेव स्यात् ।। १५५। [वि० प०] कतेः । इहापि पूर्ववद् व्याख्यानात् समाससंबन्धिनोर्जस्शसोलुंग् न भवति । प्रियकतयः, प्रियषषः, प्रियपञ्चानः । 'प्रियकतीन्, प्रियषषः, प्रियपञ्ज्ञः ' पश्येति पूर्ववद् विग्रहः । तथा प्रियाष्टानस्तिष्ठन्ति, प्रियाष्टनः पश्येति शस्यनोऽकारलोपे "तवर्गश्चटवर्गयोगे"(२।४।४६) इत्यादि प्रवर्तते । कर्मधारये तु संख्यायाः प्रधानत्वात् स्यादेव-प्रियाश्च ते षट् चेति प्रियषडित्यादि ।। १५५ । [क० च०] कतेः। प्रियाष्टान इति संख्यायाः ‘अबहोरन्त्यस्वरादिलोपश्च' न भवति, समासान्तविधेरनित्यत्वादिति ।।१५५। ॥ इति श्रीसुषेणाचार्यकविराजकृते कलापचन्द्रे वितीये नाम्नि चतुष्टये प्ररमो धातुपादः समाप्तः॥
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy