________________
१७७
नामचतुष्टया याये प्रवमो धातुपादः [वि० प०]
।त्रेरिति सम्बन्धे षष्ठीयम्,त्रेः संबन्धिन्यामीति श्रुतत्वात् ढेरेव स्थाने त्रयादेश इत्याह - त्रेस्त्रयादेश इति । तेन समाससंबन्धिन्यामि त्रयादेशो न भवतीति प्रियास्त्रयो येषामिति विग्रहे प्रियत्रीणामिति ।परमाश्च ते त्रयश्चेति विग्रहे तत्पुरुषस्योत्तरपदप्रधानत्वात् वेरेव संबन्धिन्यामीति तदन्तस्यापि स्यादेवेत्याह-परमत्रयाणामिति । अथवा 'गौणमुख्ययोर्मुव्ये कार्यसम्प्रत्ययः' (कात० प० २) इत्याश्रीयते । न च वक्तव्यं 'प्रियत्रीणाम्' इति त्रयादेशाभावपक्षे कथं नुरागम इति । न खल्वनेन नुरागमो विधीयते, तस्य पूर्वेणैव सिद्धत्वात् । अतः साध्य एव त्रयादेशो बाध्यते । सिद्धस्तु नुः पूर्वेणैव सर्वत्र भवतीति । यत्तु सूत्रार्थे चकारान्नुरागमश्चेत्युक्तम्, तदुत्तरत्र न्वागमस्यैवाधिकारार्थः, अन्यथा त्रयादेशोऽपि चतुरः शङ्क्येत इति ।। १५२ ।
[क० च०]
। इहोत्तरत्र चानुकार्यानुकरणयोर्भेदादेकवचनमिति कुलचन्द्रः । ननु आगमसाहचर्यात् त्रिशब्दादामि परे स्वतन्त्र एव मध्ये त्रय इति भवतीत्यर्थः कथन्न स्यात्, तेन पक्षे न्वागमः पक्षे त्रयागम इति ? नैवम् । 'त्रयः' इत्यकारान्तविधानादादेश एव, न त्वागमः । अन्यथा आमि समानदीर्घ वा आकारेण सस्वरे वा विशेषाभावात् । न च वक्तव्यम्, त्रयागमे कृतेऽपि ह्रस्वान्नुविधानार्थम् अकारः क्रियते इति लिङ्गादेव नोर्विधानादिति त्रयागमेनैव साहचर्यस्य कृतत्वाच्च ‘सकृद्गत०' (कात० प० ३६) इति न्यायाद् वा । तस्मान्न पञ्चमीयमित्याह - संबन्धे षष्ठीयमिति । यद् वा पञ्चमीकल्पनयाऽस्यापादानस्य संबन्धस्य च द्वयोरेव विवक्षा, अतो गौरवम् । षष्ठीकल्पनायां तु संबन्धमात्रस्यैव विवक्षायां लाघवमित्याह - षष्ठीयमिति ।
ननु त्रेः सम्बन्धिन्यां त्रयादेशो भवतीत्युक्ते उभयत्र षष्ठीसंबन्धे गौरवं भवति । तस्मात् त्रेस्त्रयादेश आमि भवतीत्येकत्रैव षष्ठीसंबन्धोऽस्तु लाघवादित्याह-अथवेति । तर्हि 'प्रियत्रीणाम्' इत्यत्र कथन्न स्यादित्याह - गौणमुख्येत्यादि । ननु 'न शब्दाश्रये गौणमुख्यव्यवहारः' इति न्यायस्य सत्त्वात् कथमिदमुच्यते इत्याह - आश्रीयते इति । भिन्नयोगादेव त्रयादेशनिवृत्तिरिति शङ्कामात्रमेतत्, अन्यथा त्रिचतुरस्त्रयश्चेति विदध्यात् ।। १५२।