________________
१७५
नामचतुष्टयाध्याये प्रथमो धातुपादः
१७५ १५१. आमि च नुः [२।१।७२] [सूत्रार्थ]
हस्व-नदी-श्रद्धासंज्ञक लिङ्ग से परवर्ती षष्ठीविभक्तिबहुवचन ‘आम्' प्रत्यय के होने पर 'नु' आगम होता है ।। १५१ ।
[दु० वृ०]
ह्रस्वनदीश्रद्धाभ्य आमि परे नुरागमो भवति । वृक्षाणाम्, अग्नीनाम्, धेनूनाम्, नदीनाम्, वधूनाम् , श्रद्धानाम्, मालानाम् । श्रद्धासहचरितस्यामो ग्रहणाद् वा- नद्याम्, युवाम् ।।१५१।
[दु० टी०]
आमि । श्रद्धासहचरितस्येत्यादि । श्रद्धायास्तावत् षष्ठीबहुवचनम् आम् भवतीति, तत्साहचर्याद् ह्रस्वनदीभ्यामपीत्यर्थः । तेन "नया ऐ-आस्-आस्-आम्" (२।१।४५) इत्यामादेशे कृते युष्मदादिभ्यश्चामौ चाम् इत्यादेशे कृते न भवति । वाशब्दः पक्षान्तरे 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव' (कात० प० पा०७५) ग्रहणं वेत्यर्थः । 'वारीणाम्, जतूनाम्' इत्यत्र यदि नामिनः स्वरे नुर्भवति तदा न दोष इति । नुरित्युकारः परादित्वार्थः। आम् नामित्यादिश्यतामिति चेत्, नैवम् । लाघवं न भवतीति ।। १५१ ।
[वि० प०]
आमि० ।नद्याम्, युवामिति । "नया ऐ आसासाम्" (२।१।४५) इति डेरामादेशे कृते तथा "युष्मदस्मदादिभ्यश्चामौ चाम्" इति कृते प्राप्नोतीत्याह- श्रद्धासहचरितेत्यादि । अयमर्थः- श्रद्धायास्तावत् षष्ठीबहुवचनमेवाम् सम्भवति । तत्साहचर्याद् हस्वनदीभ्यामपि षष्ठीबहुवचनमेव गृह्यते । तेन कुतोऽन्यत्र प्राप्तिः । वाशब्देन 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव' (कात० प० पा० ७५) ग्रहणमिति सूच्यते ।। १५१।
[समीक्षा]
‘वृक्ष + आम्, अग्नि + आम्, धेनु + आम्' इस अवस्था में कातन्त्रकार ने 'नु' तथा पाणिनि ने 'नुट्' आगम करके 'वृक्षाणाम्, अग्नीनाम्, धेनूनाम्' प्रयोग सिद्ध किए हैं । पाणिनि का सूत्र है - "हस्वनयापो नुट्" (अ० ७।१।५४) । इस प्रकार उभयत्र साम्य ही है।