________________
१७३
नामचतुष्टयाध्याये प्रथमो धातुपादः [वि० प०]
हस्वः । अथ किमर्थं नदीग्रहणम् ? नद्याः संबुद्धौ कृते ह्रस्वलक्षण एव सिलोपो भविष्यति । न च 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (कात० प० ३१) इति वक्तुं युज्यते, वर्णग्रहणे निमित्तत्वात् । सत्यमेतत्, किन्तु ओरार्थं क्रियमाणमिहापि भूतपूर्वगतिमाश्रित्य सुखार्थमेवावेदयतीति नदीग्रहणम् । तर्हि श्रद्धाग्रहणं किमर्थम् ? "श्रद्धायाः सिर्लोपम्” (२।१।३७) इत्यस्त्येव ? सत्यम् । इदमप्युत्तरार्थमिहार्थं च | अन्यथा 'लोपस्वरादेशयोः स्वरादेशो विधिर्बलवान्' (कात० प० ३५) इत्यग्रतः संबुद्धौ चैत्वे सति श्रद्धाया अभावात् कथमिह सेर्लोपः स्यात् ।
श्रद्धाग्रहणे तु तबलाद् भूतपूर्वगतिराश्रीयते इत्याह - नदीश्रद्धाग्रहणमित्यादि । एतेनैतदपि चोद्यमपास्तम्, स्वरादेशत्वान्नित्यत्वाच्च प्रागेत्वे ओत्वे च कृते ह्रस्वाभावात् कथं सेर्लोपः स्यात् -हे अग्ने ! हे धेनो ! , नदीश्रद्धाभ्यां साहचर्याद् ह्रस्वादपि भूतपूर्वादिति व्याख्यानात् । अयं तु परिहारो न युज्यते ह्रस्वग्रहणबलात् पूर्वमेव सिलोप इति तस्याकारं प्रति चरितार्थत्वात् 'हे वृक्ष !' इति । उत्तरार्थत्वाच्चाग्नीनाम्, धेनूनामिति ।। १५०।
[क० च०]
हस्व० । स्वरादेशत्वान्नित्यत्वाच्चेति । ननु कृताकृतप्रसङ्गित्वेन नित्यादपि गुणात् प्राक् ‘सर्वविधिभ्यो लोपविधिर्बलवान्' (कात० प० ३४) इति न्यायात् सेर्लोपोऽपि स्यादित्याह-स्वरादेशत्वादिति व्यस्तम् । भूतपूर्वादिति । ननु 'हे पन्थाः' इत्यत्रापि भूतपूर्वह्रस्वात् सिलोपः कथं न स्यात् । यथा हे धेनो ! इत्यादिषु ? सत्यम् । ___अत्र हेमकरः – यत्र सम्बुद्धिमाश्रित्य विकारः क्रियते, तत्रैव सिलोपं प्रति भूतपूर्वगत्याश्रयणमिति । तदसत् । सह इना वर्तते इति सिः, तस्य संबोधने 'हे से !' इत्यत्रापि संबुद्धिं विना विकारे सति भूतपूर्वगत्या सिलोपस्य टीकाकृता दर्शितत्वादिति कश्चित् । तन्न । विकारस्याप्येतत्प्रकरणीयस्यैव गृहीतत्वात् । 'हे से' इत्यत्र तु सन्धिप्रकरणीयविकार इति न दोषः ।
कुलचन्द्रस्त्वाह - "आ च न सम्बुद्धौ" (२।१।७०) इत्यत आ च नेति वर्तते । ततश्च विभक्तिविपरिणामेन आकाराच्च न भवतीति सम्बन्धनीयमिति । महान्तस्तु नदीश्रद्धयोस्तावद् विकारे नामी संभवति, तत्साहचर्याद् ह्रस्वस्यापि नामिन एव विकृताद्