SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १७२ कातन्त्रव्याकरणम् प० ३१) इति । ननु 'वर्णग्रहणे निमित्तत्वात्' (कात० प० ३२) इत्यस्तीयं परिभाषा । तर्हि उत्तरार्थं क्रियमाणमिहापि सुखप्रतिपत्त्यर्थम् । एवं सति भूतपूर्वाया अपि नद्या एव सिलोप इति । तथा श्रद्धाया एत्वे कृते "श्रद्धायाः सिर्लोपम्” (२।१।३७) इत्यनेन सिध्यतीति श्रद्धाग्रहणमपीह भूतपूर्वश्रद्धाप्रतिपत्त्यर्थं तत्साहचर्यादिकारोकारादपि भूतपूर्वादिति स्थितम् । ह्रस्व इति व्यक्तिनिर्देशाद् वा विहितविशेषणमाचक्षते अन्ये। "हस्वनदीश्रद्धाभ्यो विहितः सिः" इत्यर्थः। नन्वर्थवशात् सम्बुद्धाविति सप्तम्या अचरितार्थायाः प्रथमया विपरिणामो भविष्यति, किं सिग्रहणेन ? नैवम् । अन्यथाप्यर्थस्य घटनाद् ह्रस्वनदीश्रद्धाभ्यः परस्य ऋदन्तस्य संबुद्धौ लोपो भवतीति ऋत एव लोपः स्यादिति विप्रतिपद्यते । हे भवकर्तः, हे सेनानिपितः, हे यवलुमातः, हे नदीकर्तः, हे श्रद्धामातः । तस्मात् सिग्रहणमिति । अपर आह - विशेषविधिं बाधित्वा लोपः प्रागेव यथा स्यादिति । तेन हे वारे ! हे दधे ! हे त्रपो ! हे जतो ! सम्बुद्धिलक्षणमेत्वमोत्वं च सिद्धम् । इकारन्तप्रकृतिपक्षे 'हे पन्थाः' इत्यादावपि विषयसप्तमी स्यात्, तर्हि कथम् ऋदन्तस्य नपुंसके संबुद्धौ ‘हे कर्तृ ! हे भर्तृ !' यदि परत्वान्नपुंसकलक्षणः सिलोपः स्यात् तदा नच तदुक्तप्रतिषेधात् सिध्यति, नान्यथेति । किं च 'हे वारि, हे त्रपु, हे दधि, हे जतु' इत्यपि भवितव्यमेव । अथ "अकाराद् असंबुद्धौ मुश्च" (२।२।७) इत्यसंबुद्धिग्रहणं ज्ञापयिष्यति - नपुंसकलक्षणोऽपि सेर्लोपो भवतीति । __ नैवम् । “अन्यादेस्तु तुः" (२।२।८) इत्यत्र तुशब्दोऽसंबुद्धिनिवृत्त्यर्थ इति व्याख्येयम् । तत्कथम् – 'हे अन्यत्' इति स्यात् । तदर्थञ्चेदं संबुद्धिग्रहणम्, तदा "अन्यादेस्तु संबुद्धौ च" इति विदध्यात् । तर्हि प्रियास्तिस्रो यस्य कुलस्येति विग्रहे 'प्रियतिसृ प्रियचतसृ कुलम्' इति न सिध्यति । “तिसृ चतसृ विभक्तौ" ( 1३।२५) इति विषयसप्तमीत्वाद् भविष्यति । ननु 'प्रियत्रि, प्रियचतुः कुलम्' इत्यपीष्यते, तन्न सिध्यतीति पूर्वोक्तमेव युक्तम् इत्येतद् इष्टरूपसिद्ध्यर्थं तु व्याख्यास्यामः । कथं सह इना वर्तते इति सिः, परमश्चासाविश्चेति परमेः, तस्यामन्त्रणे 'हे से ! हे परमे !' तथा ओकारादपि इत्येके। परमश्चासावुश्चेति परमोः, तस्यामन्त्रणे परमो ! अन्यः पुनराह - ओकारस्याविशेषेण घुट्योत्वम्, मतान्तरमेतत् ।। १५०।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy