________________
नामचतुष्टया याये प्रथमो भातुपादः २. मातुः। मातृ + ङसि- ङस् । पूर्ववत् अकार-ऋकार को उकार तथा सकार को विसगदिश ।। १४२१
१४३. आ सौ सिलोपश्च [२।१।६४] [सूत्रार्थ]
प्रथमाविभक्ति- एकवचन 'सि' प्रत्यय के परे रहते ऋकारान्त लिङ्ग = प्रातिपदिक के अन्त्य वर्ण के स्थान में 'आ' आदेश तथा सि-प्रत्यय का लोप होता है ।। १४३।
[दु० वृ०] ऋदन्तस्य लिङ्गस्य आ भवति सौ परे सिलोपश्च । पिता, माता ।। १४३ | [दु० टी०]
आ। साविति निर्देशस्यैकत्वेऽपि सेरेव ग्रहणं न सुपः । सामान्यग्रहणे तु सीति विदध्यात् । सकारादौ विभक्तिाविति गम्यते एव । तदयुक्तम्, सिविवक्षायां न सुपो ग्रहणं सुपो विवक्षायां न सेरिति । तर्हि सुपीत्यकरणादवसीयते-सन्देहे नैव गुरुलाघवचिन्तेति। ननु साविति किमर्थम् । अर्थात् सेरेव निमित्तत्वम्, अन्यस्याश्रुतत्वात्, नैवम् । सावित्युक्तेऽर्थविशाद् विभक्तिविपरिणामः स्यात् । अन्यथा ऋदन्ताद् आ भवति, सेरेव लोपश्चेति पक्षे अथ तदा 'आ सेर्लोपश्च' इति विदध्यात् । तथापि प्रतिपत्तिरियं गरीयसीति । तथा 'सावन्सेडों' इति कृतेऽपि प्रक्रियागौरवं भवतीति ।। १४३ ।
[वि० प०]
आ सौ । साविति सप्तमीनिर्देशादिह 'अर्थवशाद् विभक्तिविपरिणामः' (कात० प० २५) इत्याह - ऋदन्तस्येति । अथ कथमिह सेरेव ग्रहणं साविति सप्तमीनिर्देशस्य समानत्वात् सप्तमीबहुवचनस्यापि ग्रहणं स्यादित्ययुक्तम् । एवं सति सीति कुर्यात् । सकारादौ विभक्ताविति गम्यत एव । नच प्रथमैकवचनं सप्तमीबहुवचनं चान्तरेणान्या सकारादिर्विभक्तिरस्ति यन्निवृत्त्यर्थं सावित्युच्यते । ननु तथापि सेरेवायं निर्देशो न सोरिति कथमिदं निश्चितम् ? सत्यम् । सिलोपश्चेति निर्देशात् सोर्ग्रहणे सति सुलोपश्चेत्याचक्षीत । न च वक्तव्यम्, इकार उच्चारणार्थः सकारमात्रस्यैव लोप इति