________________
१५२
कातन्त्रव्याकरणम्
१४१. ङसिङसोरुमः [२।१।६२ ]
[ सूत्रार्थ]
'सखि-पति' शब्दों से परवर्ती 'ङसिङस्' प्रत्ययघटित अकार को उकारादेश होता है ।। १४१ ।
[दु० [०]
सखिपतिभ्यां परो ङसिङसोरकार उमापद्यते । सख्युः, सख्युः । पत्युः, पत्युः । अग्रहणं यथासङ्ख्यनिवृत्त्यर्थम् || १४१ |
[दु० टी० ]
इति० । यथासङ्ख्यं न भवति । ङसिङसोः सखिपतिभ्यां संबन्धस्याविवक्षितत्वाद् ङसिङसोरः सखिपतिभ्यां पर इत्यर्थः । " सख्युश्च " (२।२।२३) इति ज्ञापकाद् वा समासेऽपि भवितव्यमेव । शोभनः सखा अतिशयः सखा अस्य सुसख्युः, अतिसख्युः । स्वतिभ्यां पूजायामन्नास्तीति "न सखिष्टादावग्निः” (२ । २ । १) इति मतं वर्णयिष्यामः । सखायमिच्छति, पतिमिच्छतीति वा यिन् नाम्यन्तलक्षणो दीर्घस्ततः क्विप् । यदि दृश्यते सख्युः, पत्युरिति भवितव्यम्, इह एकदेशविकृतस्यानन्यवद्भावात् । यत्तु "ख्यत्याद् ” इति सूत्रं कृतवान्, तन्मते सख्युश्चेति ज्ञापकाद् अकार उच्चारणार्थ इति । सख्याद् गार्हपत्याद् इत्यत्र न भवति सखीयति, सुसखीयति क्विप् । तन्मते सख्युः, सुसख्युरिति भवितव्यम् । तथा ‘लूनीयति, पूनीयति' इति क्विप् । नकारस्यासिद्धवत्त्वात् लून्युः, पून्युरिति । तदिहाप्रमाणम् ।
चूर्णिकारोऽप्याह - नस्यासिद्धत्वे अन्तरगे कर्तव्ये बहिरङ्गमीत्वं यत्वमप्यसिद्धमिति । तथा सखेन वर्तते इति सख:, तमिच्छतीति यिन्, सखीयतीति । क्विप्, सख्य इतीह भवितव्यम् । नायं सखीशब्दः एकदेशविकृत इति कथं सख्याः स्त्रिया इत्युभयसावकाशे परत्वादयमेव प्राप्नोति । उत्वेऽपि कृते नदीकार्यं नास्तीति 'सकृद्गतो विप्रतिषेधो यद् बाधितं तद् बाधितमेव' (कात० प० ३६ ) इति नियमात् । तर्हि " लिङ्गग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (कात० प० १७ ) इत्यनित्येयं परिभाषा । यद्यपि सखीमिच्छतीति यिन्, तदापि 'सख्या' इति भवितव्यम्, ईकारस्य नदीत्वात् । नपुंसके न्वागमो वास्तीति 'सुसखिनः कुलस्य' इति भवति ।। १४१ ।
.