________________
नामचतुष्टयाप्यये प्रथमो पातुपादः गते मृते प्रव्रजिते क्लीवे च पतिते पतो।
पवस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ योगविभागादित्यन्ये। तेन क्वचित् सह पूर्वेण भवतीति ।। १४०। [वि०प०]
सखि० । डेरनुवृत्तौ पुनर्डिग्रहणं डिरेव और्यथा स्याद् इत्याह - पुनर्डिग्रहणमित्यादि । ननु वचनबलादेव सपूर्वनिवृत्तिभविष्यति, अन्यथा अग्नित्वात् पूर्वेणैव सिद्धमित्ययुक्तं "न सखिष्टादावग्निः, पतिरसमासे" (२।२।१,२) इत्यग्निकार्यप्रतिषेधात् कथं पूर्वेणैव सिध्यतीति । अथानन्तरत्वाद् "इरेनुरोजसि" (२।१।५५) इत्यतः सामान्येन तत्रेकारोकारावनुवर्तेते, नाग्निरिति । तदप्ययुक्तम्, प्रकृतत्वाद् अग्निरेव तत्रापि वर्तते । इकारोकारग्रहणस्य तु प्रयोजनान्तरमुक्तमेव ।। १४०।
[क० च०]
सखिपत्योः। पुनर्डिग्रहणमिति । ननु "न सखिष्टादावग्निः" (२।२।१) इति निषेधाद् डिग्रहणाभावेऽपि सपूर्वनिवृत्तिः स्यात् ? सत्यम् । प्रकरणान्तरप्राप्तकार्यस्य एकत्वेऽपि पृथक्करणबलात् । तथा च 'मातुः स्मृतवान्' इत्यत्र निष्ठादिनिषेधेऽपि स्मृत्यर्थद्वारा षष्ठीत्याह- पुनर्जीत्यादि ।। १४०।
[समीक्षा]
'सखि +ङि, पति +ङि' इस अवस्था में कातन्त्रकार ङि को औ आदेश करके 'सख्यौ, पत्यौ' रूप सिद्ध करते हैं | पाणिनि ने भी 'औ' आदेश किया है- "औत्" (अ० ७।३।११८)।
[रूपसिद्धि]
१. सख्यो। सखि +ङि । प्रकृत सूत्र से 'ङि' को 'औ' आदेश तथा "इवों यमसवणे न च परो लोपः" (१।२।८) से इकार को यकार ।
२. पत्यो। पति + ङि। पूर्ववत् ङि को औ तथा इकार को यकारादेश ।।१४०।