________________
नामचतुष्टयाध्याये प्रबको पातुपादः
१९ [दु० टी०]
कि। सह पूर्वेण वर्तते इति सपूर्वः। सहशब्दोऽयं तुल्ययोगवचनः । दृष्टानुवृत्तिकतया पूर्व इकार उकारश्च प्रतिपत्तव्यः । न चानन्तरो गोशब्द इति हौ चेति ज्ञापकाद्वा गोश्चेत्यत्र चकारस्तावनुकर्षति उत्तरार्थ इत्येके। यद्येवं पूर्वेण सह डिरौर्भवति इत्युक्ते पूर्वोऽप्यौकाररूपेण वर्तितुमर्हति, ततः स्थानिद्वयस्यादेशद्वयप्रसङ्ग इति, नैवम् । यथा मृपिण्डो घटो भवति इत्यपरेण मृपिण्डेन सह, यथा द्वयोः पूलयोः कटः कर्तव्य इत्युक्ते एक एव प्रतीयते लोके तथात्रापीति । यदि पुनर्विद्यमानवचनोऽयं सहशब्दः स्यात् तदा विद्यमानपूर्वो डिरौर्भवति, व्यावृत्तिरपि नास्ति । सपूर्वग्रहणमनर्थकमेव स्यात् । "डेडौं" इति कृते विंशतावित्यत्र तेर्विंशतेरपि डानुबन्धे डेर्लोपः स्यात्, विभक्त्यनुवर्तने डकार इह सुखप्रतिपत्त्यर्व एव ||१३९।
[वि० प०]
जिः। प्रकृतत्वाद् अग्निरिह वर्तते, न त्वनन्तरगोशब्दः । “हो च" (३।५।२४) इति ज्ञापकाद् वा इत्याह - अग्निसंज्ञकादिति ।।१३९।
[क० च०]
डिग। प्रकृतत्वादिति । इदुतोरग्नित्वाव्यभिचाराद् "इरेटुरोप्जसि" (२।१।५५) इत्यतः इदुतोरनुवर्तनमेवाग्न्यनुवर्तनमिति न दोषः। विभक्त्यनुवर्तने डकार इह सुखप्रतिपत्त्यर्व इति दुर्गः । ननु एतन्न संगच्छते यावता 'अग्नी' इत्यत्र "औकारः पूर्वम्" (२।१।५१) इत्यनेन इकारे कृते औकारः पूर्वस्वरेण सह स्यादिति दूषणम्, तन्निरास एव प्रयोजनम् । न च वाच्यम्, इकारकरणादेव न भविष्यतीति पूर्वेण स्वरेण सहौकारकरणेन सप्रयोजनत्वात् । न च तर्हि "औौं" कुर्यादिति वाच्यम् । 'पटू' इति सिद्ध्यर्थमेव पूर्वग्रहणस्य सार्थकत्वात् ? सत्यम् । औकारः पूर्वमित्यत्र पूर्वग्रहणं विहाय तमिति कृते सिध्यति, यत् पूर्वग्रहणं तद् बोधयति-औकारः पूर्वमेव प्राप्नोति न किञ्चिदवर्णान्तरम् । लोपस्तु भवत्येव, वर्णत्वाभावात् । यद् वा अविकृतप्रकरणादेव न भवति 'धेन्वा' इतिवत् । ननु अग्न्यनुवर्तने विभक्तिविपरिणामेन गौरवं स्यादतोऽनन्तरस्य गोरनुवर्तनमेव युक्तमित्याह - हौ चेति ।। १३९।