________________
१४८
कातन्त्रव्याकरणम्
[वि० प० ]
गोः। ओदिति न वर्तते, ओकारस्यौकारविधेरनर्थकत्वात् । अन्यथा अप्रधानस्य ह्रस्वत्वे सति सार्थकत्वमित्युक्तम् अग्नित्वात् । पूर्वेणैव सिद्धं चित्रगोरिति । अत एव प्रधानस्य गोशब्दस्य ग्रहणम् एकदेशविकृतस्यानन्यवद्भावेऽपि । यद्येवम्, एदिति कथं न वर्तताम् । वचनादोकारस्येकार इत्ययुक्तम् । एवं सति 'गोश्च' इति निर्दिशेत् || १३८। [क० च०]
गोः। गोश्चेति निर्दिशेदिति । अथ कथमिदमुच्यते यावता एदेतोरनुवर्तनस्य गोः, गोरिति पदद्वयस्य सिद्धिरेव प्रयोजनम् । ततश्च गोरित्यपि निर्देशो युज्यते, नैवम् । कतमोऽयं पूर्वपक्ष: "सिङसोरलोपश्व" (२।१।५८) इत्यत्र चकारेणानुकृष्टत्वादेदोतोरनुवृत्तिरेव नास्ति । यत्तु पत्रिकायां गोश्चेति निर्दिशेद् इत्युक्तं तत् प्रथमकक्षायामेव || १३८| [समीक्षा]
‘गो + ङसि - ङस्' इस अवस्था में अकार का लोप करके कातन्त्रकार ने 'गो' पद सिद्ध किया है । पाणिनि यहाँ भी "ङसिङसोश्च" (अ० ६ |१|११० ) से पूर्वरूप का विधान करते हैं ।
[रूपसिद्धि]
१-२ . गोः । गो + ङसि - ङस् । प्रकृत सूत्र द्वारा ङसि - ङस् प्रत्ययघटित अकार का लोप तथा "रेफसोर्विसर्जनीयः " ( २ | ३ |६३) से स् को विसर्ग | १३८। १३९. ङिरौ सपूर्वः [ २|१|६०]
[ सूत्रार्थ ]
अग्निसंज्ञक शब्द से परवर्ती सप्तमीविभक्ति एकवचन 'ङि' प्रत्यय तथा अग्निसंज्ञक शब्द के अन्त्यावयवरूप स्वर के स्थान में 'औ' आदेश होता है ।। १३९ ।
-
[दु० वृ०]
अग्निसंज्ञकात् परो ङिः सह पूर्वेण स्वरेण और्भवति । अग्नौ, धेनौ ।। १३९ ।