________________
१४४
कातन्त्रव्याकरणम्
१३६. डे [ २।१।५७]
[ सूत्रार्थ ]
चतुर्थी विभक्ति - एकवचन 'डे' प्रत्यय के परवर्ती होने पर लिङ्ग प्रातिपदिकसंज्ञक शब्द के अन्त्यावयव इकार को एकार तथा उकार को ओकार आदेश होता है || १३६।
=
[दु० वृ०]
ङयि परतो लिङ्गस्येरेद् भवत्युरोच्च । अग्नये, पटवे, बुद्धये, धेनवे । 'डे' इत्यविकृतनिर्देशात् बुद्ध्यै धेन्वै ॥१३६॥ [दु० टी०]
े। अथैकयोगमेव कथं न कुर्वीत - "जस्संबुद्धिडेष्विति । नैवम्, इह व्याख्यातव्यम् - ङयीति निर्देशे प्राप्ते यदविकृतनिर्देशं करोति, विकृते वचने मा भूदिति 'बुद्ध्यै, धेन्वै' तदादेशस्तद्वदिति । ननु 'येन नाप्राप्ति ० ' ( व्या० परि० ४२ ) न्यायेन " ह्रस्वश्च ज्वति" (२।२।५ ) इति नदीवद्भावोऽग्निकार्यं बाधिष्यते, अग्निकार्ये हि प्राप्ते नदीवद्भाव इति न वत्करणं स्वाश्रयार्थम्, नैवम् । विभाषैव साधिता स्वाश्रयानुवृत्तिरिति न यत्रांशे नदीवद्भावस्तत्रांशेऽग्निकार्यमिति भावः, तर्हि भिन्नयोगः सार्थक इति ॥ १३६ ॥
[वि० प० ]
"
डे । ननु किमर्थं 'ङे' इति सप्तम्या आदिलोपः यावता ङीति निर्देशे स्पष्टं भवति । न चेह विभक्तिकृतं गौरवं चिन्त्यते इत्याह - ङे इत्यादि । ह्रस्वश्च ङवतीति नदीवद्भावविधानाद् विकृते ङेवचने मा भूदित्यर्थः । अत एव जस्संबुद्धिङेष्वित्येकयोगो न कृतः । तथाहि विकृतनिर्देशस्याप्राप्तेः कथमेवमुच्यते । ननु तथापि येन नाप्राप्तिन्यायेन नदीवद्भावोऽग्निकार्य बाधिष्यते, अग्निकार्ये हि प्राप्ते नदीवद्भावो विधीयते इत्युक्तम्। वत्करणस्य स्वाश्रयार्थत्वादिति नदीवद्भावपक्षेऽपि अग्नित्वमस्तीत्यग्निकार्यं स्यादेवेति ||१३६|
[क० च०]
ङे । न चेह विभक्तिकृतं लाघवं चिन्त्यते इति विभक्त्यभावेन कृतं यल्लाघवं तदपि विभक्तिकृतमुपचाराद् विभक्तिशब्देन विभक्त्यभाव उच्यते । यथा मरुदेशे