________________
१॥
नामचतुष्टयाभ्याये प्रथमो धातुपादः तथाहि - नदीमतिक्रान्तः, चित्रा गौर्यस्येति विग्रहे गोरप्रधानस्यान्त्यस्य स्त्रियामादादीनां चेति ह्रस्व इत्यस्त्येव लाक्षणिकत्वमित्याह - अग्नेः संबुद्धावित्यादि । इकारोकारावधिकृतौ प्रथमान्तावपि व्याख्यानतो विशेषार्थप्रतिपत्तेः पञ्चम्यन्तौ तौ चार्थादग्निः । अथवा प्रकृतत्वाद् अग्निरित्यनुवर्तते, ततो विहितविशेषणव्याख्यानम् अग्नेर्विहितायां संबुद्धावित्यर्थः । तेन 'हे नदि, हे वधु' इत्यत्र नद्याः संबुद्धिर्विहिता, ततो ह्रस्व इति कुतः प्राप्तिः । एकेऽन्ये इत्यर्थः । इह तु ह्रस्वकरणसामथ्यदिव न भवति । अन्यथा तत्र संबुद्धावेदोतौ गुणो वेति कुर्यात् ।। १३५ ।
[क० च०]
सम्बुद्धौ ।व्याख्यानत इति ।व्याख्यानं पुनरेतत् । यदि प्रथमान्ताविकारोकारावधिकर्तुमिष्टौ तदा इरेदुरोज्जस्संबुद्धावित्येकमेव सूत्रं विदध्यात्, “तौ चार्थादग्निः" इति । तावित्यनेन अग्निशब्दसामानाधिकरण्यादुभयत्र द्विवचनसंभावनायामपि सामान्यविशेषभावेनाग्निशब्दादेकवचनम् । न च सामान्यरूपत्वान्नपुंसकत्वमाशङ्कनीयम्, अग्निशब्दस्याजहल्लिङ्गत्वात् । ननु यदि "इरेदुरोज्जस् संबुद्धौ” इति क्रियते तदा कथं यथासङ्ख्यं न सम्भाव्येत इत्याह - अथवेति | चकारोऽनित्यार्थस्तेन 'वरतनु सम्प्रवदन्ति कुक्कुटाः' इति वररुचिः। स्वमते दीर्घान्ततनूशब्देन साध्यम्, समासान्तविधेरनित्यत्वाद् "गोप्रधानस्य" (कात० परि०-नाम० ८१) इत्यादिना न ह्रस्वः ।।१३५।
[समीक्षा]
'हे अग्नि + सि, हे धेनु + सि' इस अवस्था में कातन्त्रकार ने स्पष्टावबोधार्थ इ को ए तथा उ को - ओ आदेश करके 'हे अग्ने ! हे धेनो !' रूप सिद्ध किए हैं, जबकि पाणिनि ने संज्ञानिर्देशपूर्वक गुणादेश क्यिा है - "हस्वस्य गुणः" (अ० ७।३।१०८)। संज्ञापूर्वक निर्देश भी सुखार्थ माना जाता है | अतः उभयत्र साम्य
[रूपसिद्धि]
१.हे अग्ने ! हे अग्नि + सि । “आमन्त्रिते सिः सम्बुद्धिः" (२।१।५) से 'सि' की सम्बुद्धिसंज्ञा, प्रकृत सूत्र द्वारा इकार को एकार तथा भूतपूर्वगति के आश्रय से "हस्वनदीश्रद्धाभ्यः" (२।१।७१) द्वारा 'सि' का लोप ।
२.हे पेनो! हे धेनु + सि । पूर्ववत् संबुद्धिसंज्ञा, इकार को एकार तथा सि का लोप ।।१३५।