________________
१४१
नामचतुष्टयाप्याये प्रथमो पातुपादः [दु० वृ०] लिङ्गस्येरेद् भवत्युरोच्च जसि परे । अग्नयः, पटवः, बुद्धयः, धेनवः ।। १३४। [दु० टी०]
इरेत् ।अग्निरिह प्रकृत एव पुनरिकारोकारग्रहणम् अस्त्रियामित्यधिकारनिवृत्त्यर्थम् । अन्यथा एदोतौ गुणो वेति सूत्रे कृते 'स्थानेऽन्तरतमः' (कात० ५० १६) इति सिध्यत्येवेत्याह -बुद्धयः, धेनव इति । बुद्धि - धेनू स्त्रियां वर्तेते । कार्यिकार्ययोरभिन्नविभक्तिनिर्देश इह स्पष्टार्थः ।। १३४।
[वि० प०]
इरेत् । अग्नेरित्यधिकृतत्वाद् एदोतौ जसि गुणो वेति सिद्धे पुनरिकारोकारग्रहणं व्यक्त्यवधारणार्थम् । तेन ‘अस्त्रियाम्' इति न संबध्यते । अतः स्त्रीलिङ्गमप्युदाहरति - 'बुद्धयः, धेनवः' इति ।।१३४।
[क० ब०]
इरेत् । नन्विह इकारोकारयोग्रहणस्य व्यक्त्यर्थत्वात् तावेच 'डे' इति सूत्रे वर्तेते । ततः सख्ये' इत्यत्रापि 'डे' इत्यनेन एत्वं स्यात् ।अग्निकार्यत्वाभावेन "न सखिष्टादावग्निः" (२।२।१) इत्यनेन निषेधस्याविषयत्वादिति चेत्, न | इदमप्यग्निकार्यम्, इकारोकारयोरग्निकार्यत्वाव्यभिचारात् ।।१३४।
[समीक्षा]
‘अग्नि + जस्, पटु + जस्' इस अवस्था में इ को ए तथा उ को ओ आदेश करके कातन्त्रकार 'अग्नयः, पटवः' शब्दरूप सिद्ध करते हैं । यहाँ पाणिनि ने गुणसंज्ञापूर्वक गुणादेश किया है - "जसि च" (अ० ७।३।१०९)। अतः उभयत्र साम्य ही है।
[रूपसिद्धि
१. अग्नयः।अग्नि + जस् | प्रकृत सूत्र से 'अग्नि' शब्दघटित इकार को एकार, "ए अय्" (।२।१२) से एकार को 'अय्' तथा 'रेफसोर्विसर्जनीयः" (२।३१६३) से स् को विसर्ग।