________________
१९
नामचतुष्टयाप्याचे प्रथमो बतुपादः सूत्र में टा के लिए 'आङ्' शब्द पढ़ा है, उसका स्पष्टीकरण विना व्याख्याओं का अवलोकन किए नहीं हो पाता |
[रूपसिद्धि]
१. अग्निना । अग्नि +टा । प्रकृत सूत्र द्वारा अग्निसंज्ञक शब्द से परवर्ती टा को 'ना' आदेश । २. पटुना। पटु +टा । पूर्ववत् अग्निसंज्ञा तथा 'ना' आदेश ।। १३२ ।
१३३. अदोऽमुश्च [२।१।५४] [सूत्रार्थ]
'अदस्' शब्द को 'अमु' तथा 'टा' को 'ना' आदेश होता है, स्त्रीलिङ्ग से भिन्न स्थल में ।। १३३।
[दु० वृ०]
अदसोऽमुरादेशो भवत्यस्त्रियाम्, टावचनस्य च नादेशः । अमुना । अस्त्रियामिति किम् ? अमुया ।।१३३।
[दु० टी०]
अदो० । अदसस्त्यदाद्यत्वे टावचनस्य च नादेशे कृते तत एत्वे पदे निष्पन्ने मत्वे च सत्युत्वं मादित्येकारस्य दीर्घत्वेऽमुनेति प्राप्ते वचनमिदमारभ्यते । चकारेणानुकृष्यमाणे नादेशोऽदसो न भवति, अनन्तरटानुवृत्तेः । यद्येवम् अग्नित्वात् पूर्वेणैव सिद्धम्, चकारकरणमनर्थकम्, नैवम् । 'अर्थवशाद् विभक्तिविपरिणामः' (कात० प० २५) इति टावचने परेऽमुरादेशः । ततःसन्निपातलक्षणत्वाद् नादेशो भवतीति चकारः क्रियते | नच वक्तव्यम्, नादेश एवास्ताम् अमुरादेशः किमर्थम्, यस्मादकारस्य घोषवति दीर्घत्वे सति 'स्थानेऽन्तरतमः' (कात० प० १६) इति मादुत्वं दीर्घः स्यात् । अदसः सर्वनाम्नो रूढित इह ग्रहणात् 'अमुमतिक्रान्तेनात्यदसा' इति भवितव्यम् ।तर्हि कथम् अमुकेनादस इति व्यक्तिनिर्देशात् । तेन अक्-युक्तस्य यथालक्षणमेवादेशे वा कृते पश्चादत्र को भवति, तत्र बहुलत्वात् । अमुयेति । अदसस्त्यदायत्वम्, स्त्रियामादा, टौसोरे, ए अय्, अदसः पदे मः, उत्वं मात् ।।१३३।