SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो धातुपादः १२७ [वि० प०] संबुद्धौ । इह " अम्बार्थनयोः संबुद्धौ हस्वः" इत्येकयोगे सिध्यति किं 'ह्रस्वोऽम्बार्थानाम्' इति पृथग्वचनेन ? न चोद्यं तत्र श्रद्धाधिकारेऽम्बार्थानां श्रद्धासंज्ञकानां ह्रस्व इति । एकयोगे त्वम्बार्थस्य निर्विशेषणत्वात् 'हे मातः' इत्यत्रापि ह्रस्वः स्यात् । अथ दीर्घस्यापि ह्रस्व इति चेत्, न । लोके ह्रस्वमपि गृहं ह्रस्वं क्रियते दृढार्थम्, अन्यथा बलवता वातेन बाधते, तद्वदिहापि ह्रस्वस्यापि ऋकारस्यारादेशबाधनार्थं ह्रस्वः प्राप्नोति, तदयुक्तम् । तत्र परत्वाद् “घुटि च” (२ | १ | ६७) इत्यरेव भविष्यति । यद्येवम्, उत्तरत्र ‘मातरम्, मातॄः' इत्यत्रापि " अम्शसोरादिर्लोपम्” (२।१।४७) आपद्यते । नैवम्, 'अम्बार्थस्य च' इति सिद्धे पुनर्नदीग्रहणमुत्तरत्र नद्येवानुवर्तत इति ज्ञापनार्थं भविष्यति ? सत्यमेतत् । किन्तु सम्बुद्धावेदोतौ गुणो वेति सिद्धे नद्या ह्रस्वकरणसामर्थ्यादित्वमोत्वं च न स्यादिति । अयं च परिहारो नोपपद्यते, अम्बार्थं प्रति ह्रस्वस्य चरितार्थत्वात् । किञ्चास्मिन् नदीप्रकरणे श्रद्धानुप्रवेशोऽप्ययुक्त इति गम्यते । । १२५ । I [क० च०] संबुद्धौ । दृढार्थमिति । दृढमेवार्थः प्रयोजनमस्य गृहकरणस्येति क्रियाविशेषणम् | न च दृढशब्दस्य धर्मिवाचकत्वात् कथं दृढार्थमित्युक्तमिति वाच्यम्, ह्रस्वे कृते दृढगृहान्तरोत्पत्तिरेव प्रयोजनं स्यात् । अन्ये तु धर्मपरोऽयमित्याहुः । अत्र पक्षे "नपुंसके भावे क्तः” (४|५|९३) । अम्बार्थस्य चेति । ननु चानुकृष्टत्वादुत्तरत्र नद्यनुवृत्तिः कथं भविष्यति, सत्यम् । चकारोऽयमुक्तसमुच्चयमात्रे द्रष्टव्यः । ततश्च मुख्यवाक्यनिर्दिष्टत्वान्नद्यनुवृत्तिर्युक्तैव । अथ तथापि चकारसंबन्धेनाम्बार्थस्य गौणत्वादुत्तरत्राम्बार्थानुवृत्तिः कथं स्यात्, यथा काम्य चेति ? सत्यम्, उत्तरत्राम्बार्थस्य चेति सचकारानुवृत्तिर्भविष्यति । ततश्च तत्रैव चकारेण नद्यनुकर्षणं क्रियते इत्यदोषः । एदोतोरिति । एवं सति गौरवं स्यादित्याह - गुणो वेति । ननु ईदृशे सूत्रे कृते तु अयं परिहारस्तत्र न दातव्यः, किन्तु अग्नेर्विहितायां संबुद्धाविति विहितविशेषणव्याख्यैव । तत्र सिद्धान्तः कार्य इत्याह - किं चेति ।। १२५ । [समीक्षा] 'हे नदि ! हे वधु !' आदि शब्दरूपों में कातन्त्रकार की तरह पाणिनि ने भी ह्रस्वविधान किया है – “अम्बार्थनयोर्हस्वः” (अ० ७ । ३ । १०७ ) । व्याख्याकारों ने
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy