SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् [दु० टी०] सम्बु० । वचनात् प्रागेव सिलोपश्चेत् तदा संबुद्धाविति लोपे सत्यौपश्लेषिक आधारो नास्तीति विषय एवान्यत्र न भवतीत्यर्थः , संबुद्धिसमीपोऽपि देशः संबुद्धिरित्युपचारात् । यथा- 'गङ्गायां घोषः'। पौर्वापर्यमप्येवम्, प्रत्ययलोपलक्षणमेव वा ||११८। [वि० प०] संबुद्धौ। स्वरादेशमप्येत्वं बाधित्वा यदि "हस्वनदी०" (२।१।७१) इत्यादौ श्रद्धाग्रहणबलादग्रतः संबुद्धेर्लोप इत्युच्यते तदा निमित्तस्याभावात् कथमेत्वमिति न देश्यं 'सम्बुद्धौ' इाति विषयसप्तमीत्वाद् भविष्यति । अथवा संबुद्धिसमीपो देशः संबुद्धिरित्युपचारात् । यथा गङ्गासमीपो देशो गङ्गेति । तदा निमित्तसप्तम्यामप्यदोषः प्रत्ययलोपलक्षणं वा । यदि पुनरनेनैव न्यायेन नित्यत्वात् स्वरादेशत्वादन्तरङ्गत्वाच्च पूर्वमेत्वं भवति, तदा भूतपूर्वगतिमाश्रित्य संबुद्धेर्लोप इति वेदितव्यम् ।। ११८ । [क० च०] संबुद्धौ । ननु यदि विषयसप्तमीयं तदाऽनुत्पन्नायामेव संबुद्धौ एत्वं स्यादित्याह - अथवेति हेमकरः । तन्न | "हस्वनदी०" (२।१।७१) इत्यत्र श्रद्धाग्रहणवैफल्यभयात् सेर्लोप एवाग्रतो भविष्यति न त्वेत्वमिति तस्मादयमेवाशयः । ननु संबुद्धित्वं जातिमाश्रित्य विषयसप्तम्येवास्तु संबुद्धिव्यक्तिलोपे जातेरेव विनाशित्वाद् अस्मिन् पक्षे एत्वमस्तु । यदा तु संबुद्धर्व्यक्तिराश्रीयते तदा कथं संबुद्ध्यभावे एत्वं स्यादित्याह - अथवेति । उपचाराश्रयणं कष्टमित्याह - प्रत्ययेत्यादि । 'प्रत्ययलोपलक्षणेन कृताकृतप्रसङ्गित्वाद्' (कात० प० पा० ८२) इत्यर्थः । ननु "हस्वनदीश्रद्धाभ्यः" (२।१।७१) इत्यत्र विहितविशेषणाङ्गीकारे लोपो नित्य इति । अन्तरङ्गत्वादिति । “सर्वविधिभ्यो लोपविधिलवान्' (कात० प० ३४) इति न्यायाल्लोप एवाग्रतो भविष्यतीत्याह - स्वरादेशत्वादिति । 'लोपस्वरादेशयोः स्वरादेशविधिर्बलवान्' (कात० प० ३५) इति न्यायादित्यर्थः।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy