________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
१११
[रूपसिद्धि]
१ . उत्तरपूर्वस्यै, उत्तरपूर्वायै । उत्तरपूर्वा + ङे । उत्तरस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं सा उत्तरपूर्वा, तस्यै । “सर्वनाम्नस्तु ससबो हस्वपूर्वाश्च" (२|१ | ४३) से ह्रस्व, सु का आगम तथा "वन्ति यै - यास् - यास् - याम्" (२।१।४२) से 'डे' को 'यै' आदेश ।। ११५ ।
११६. श्रद्धायाः सिर्लोपम् [२।१।३७]
[सूत्रार्थ]
श्रद्धासंज्ञक से परवर्ती 'सि' प्रत्यय का लोप होता है ।।११६ ।
[दु० वृ०]
श्रद्धासंज्ञकात् परः सिर्लोपमापद्यते । श्रद्धा, माला | श्रद्धाया इति किम् ? कीलालपाः। सिरदिति कृते जरा जरस् स्यात् ।। ११६।
[दु० टी०]
श्रद्धायाः। आकारः स्त्र्याख्यः श्रद्धासंज्ञक इति वचनात् कुतः सर्वनामानुवर्तनचिन्तेति । अथ सर्वनामाश्रित्योत्पद्यते या सा सर्वनाम श्रद्धेति, तथापि " साऽस्य देवता " (२।६।७) इति ज्ञापकात् । सिरदित्यादि । ननु श्रद्धामाश्रित्य खल्वदादेश उत्पद्यते, तां च श्रद्धां विहन्तुं कथं निमित्तं भवतीति तस्माद् दीर्घात् परलोप एव । आदेशविधानं तु सेरभावार्थम् ? सत्यम्, प्रतिपत्तिगौरवनिरासार्थमेव लोपग्रहणम् । सम्बुद्धेः सेर्लोपं वक्ष्यति | असंबुद्ध्यर्थं वचनमिदम् इति ||११६ |
[वि० प० ]
श्रद्धायाः । सिरदित्यादि । ननु सन्निपातलक्षणत्वादेव जरसादेशो न भविष्यतीति अदादेशो हि श्रद्धामाश्रित्य भवन् कथं तद्विवाताय निमित्तं संभवति ? सत्यम् । प्रक्रियागौरवनिरासार्थमेव लोपग्रहणम् ||११६ |
[क० च०]
श्रद्धा० । सन्निपात इत्यादि 'वर्णग्रहणे निमित्तत्वात्' (कात० प० ३२) इति परिभाषा अनित्या इति “भिसैस् वा” (२।१।१८) इत्यत्रोक्तमिति कश्चित् । लुगिति कृते सिध्यति किं गुरुकरणेनेति चेत्, न । ' पर्यायशब्दानां गुरुलाघवचिन्ता नास्ति' (सीर० प० १२२ ) इति ।। ११६ ।