________________
कातन्त्रव्याकरणम्
एवं परवर्ती इकार का लोप । इ - आदेश के अभाव में सवर्णदीर्घ होकर ‘कतरकतमाः’।
२. दण्डकतमे, दण्डकतमाः । दण्डकतम + जस् । पूर्ववत् इ - आदेशपक्ष में दण्डकतमे तथा उसके अभाव में सवर्णदीर्घ होने पर ' दण्डकतमाः' । । १११ । ११२. नान्यत् सार्वनामिकम् [ २।१।३३]
[ सूत्रार्थ ]
द्वन्द्व समास में सर्वनामसंज्ञक लिङ्ग = प्रातिपदिक से जस्को इ आदेश-भिन्न सर्वनामसंबन्धी कार्य नहीं होते हैं ।। ११२ ।
१००
[दु० वृ० ]
चकारो ऽनुवर्तते । द्वन्द्वस्थस्य सर्वनाम्नो लिङ्गस्योक्तम् अन्यच्च सार्वनामिकं कार्यं न भवति । पूर्वापराय, पूर्वापरात्, दक्षिणोत्तरपूर्वाणाम् ।। ११२ ।
[दु० टी० ]
नान्यत्० । सर्वनाम्नि भवम्, सर्वनाम्न इदं वा सार्वनामिकम् । कृतादित्वाद् इकण् । अधिकृतश्चकारोऽन्यशब्देन संबध्यते इत्यर्थादुक्तमिति गम्यते, तेन स्मैप्रभृतयो न भवन्ति । जसस्तु पूर्ववचनसामर्थ्याद् विभाषैव । अन्यदिति प्रकरणान्तरगतस्यापि प्रतिषेधार्थम्, तेनाक्प्रत्ययो न भवति । यद्यक् स्यात् तन्मध्यपातित्वात् पूर्वेण विभाषा स्यात्, तर्हि तथाप्यक्प्रतिषेधो नैव द्वन्द्वस्थाच्चेति पञ्चम्यन्तत्वात्, स चार्थवशाद् विभक्तेर्विपरिणामः पञ्चम्या वाक्यार्थघटनात् परिशिष्टेषु स्मैप्रभृतिषु परत्वयोगात् नैवम् । “नान्यत् सार्वनामिकम् ” ( २ ।१ । ३३ ) इति व्यक्तौ प्रवृत्तत्वात् । अन्यथा श्रुतत्वात् सर्वनामकार्यमुक्तमेव प्रतीयते इत्याह- द्वन्द्वस्थस्येति । तेनाक् प्रतिषिध्यत इति भावः । यद्येवं दक्षिणोत्तरपूर्वाणां स्त्रीणामिति 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' (जै० परि० वृ० १०३) अपि न स्यात् । नैवम्, नाम्नां समुच्चयो हि द्वन्द्वः, तद्विषयस्य प्रतिषेधादवयवस्य स्यादेव ।। ११२ ।
[वि० प० ]
नान्यत्० | 'अर्थवशाद् विभक्तिविपरिणामः' (कात० प० २५) इति न्यायात् पञ्चम्यन्तोऽपि द्वन्द्वस्थशब्दः पष्ठ्यन्ततया विपरिणमत इत्याह- द्वन्द्वस्थस्येति । ननु