________________
९८
कातन्त्रव्याकरणम्
‘“संख्याया अवयवे तयट्, द्वित्रिभ्यामयड् वा, उभान्नित्यम्” इति तमादित्वादयट् । चत्वारोऽवयवा एषामिति चतुष्टये, चतुष्टयाः । तत्र क्वचिदधिकाराद् "अनव्ययविसृष्टस्तु सकारं कपवर्गयोः” (२।५।२९) इति तकारेऽपि सकारः । अथवा अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदान्तत्वे सति "ते थे वा सम्” (१ । ५ । ३) इत्यनेन वा सकारे सति षत्वविधावपिशब्दबलाद् “हस्वात्तादौ तद्धिते” (कात० परि० ष० २२) इति षत्वे षाट्टवर्गत्वे च रूपमिदम् । एवं पञ्चतये, पञ्चतयाः । द्वितये, द्वितयाः । त्रितये, त्रितयाः । द्वये, द्वयाः । त्रये, त्रयाः । उभय इति नित्यमुक्तमेव “पूर्वादयश्च” (२ ।१ । २८) इति नवैव पूर्वादयो गणे वृत्करणात् । नेमशब्दस्य पूर्वादीनां च सर्वनामत्वाद् नित्यप्राप्ते अन्येषामप्रान्ते विभाषेयमुभयत उच्यते । । ११० ।
-
[क० च० ]
अल्पादेः । अर्धेत्यादि । अर्धेति अध्याहार्य इतिशब्देन उक्तत्वान्न विभक्तिः । अर्द्धा इति बहुवचनान्तं पदमिति कश्चित् । क्वचिदधिकारादपि भवन् सकारः कपवर्गयोरेव भवितुमर्हतीत्याह - अथवेति । ननु “ विसर्जनीयश्चे छे वा शम्” (१।५।१) इत्यत्र टीकाकृता " उमकारयोर्मध्ये" (१।५।७) इति यावत् पदान्ताधिकार एव संभवतीति उक्तत्वात् कथमपदान्ते "ते थे वा सम्” (१।५।३ ) इत्यस्य प्राप्तिरित्याहअन्तर्वर्तिनीमित्यादि । एवं तर्हि अन्त्यत्वाद् “नामिकरपर०" (२।४।४७) इत्यादिना षत्वं स्यादित्याह - अपिशब्दबलादिति ।। ११० ।
-
[समीक्षा]
कातन्त्रकार ‘सर्वनाम’ संज्ञा किए विना ही विकल्प से जस् को 'इ' आदेश करके‘अल्पे, अल्पाः' आदि शब्दरूप सिद्ध करते हैं । पाणिनि ने 'अल्प' आदि शब्दों की जस् प्रत्यय में विकल्प से सर्वनाम संज्ञा की है - " प्रथमचरमतयाल्पार्धकतिपयनेमाश्च'' (अ० १ । १ । ३३), तदनुसार सर्वनामसंज्ञापक्ष में “जसः शी” (अ० ७।१।१७) से 'शी' आदेश होकर 'अल्पे' रूप तथा विकल्प में 'अल्पा : ' रूप निष्पन्न होता है ।
[ रूपसिद्धि ]
१. अल्पे, अल्पाः। अल्प + जस् । प्रकृत सूत्र से जस् को 'इ' "अवर्ण इवर्णे ए" (१।२।२) से पकारोत्तरवर्ती अकार को एकार तथा परवर्ती इकार को लोप ।