________________
नामचतुष्टयाध्याये प्रबमो धातुपादः
पा० ६) इस न्याय के अनुसार इकारादेश 'जस्' प्रत्ययान्तवर्ती 'स्' को प्राप्त था, किन्तु समस्त 'जस्' प्रत्यय के स्थान में अभीष्ट होने से सूत्रकार शर्ववर्मा ने सूत्र में ‘सर्वः' पद पढ़ा है |
[ रूपसिद्धि ]
१. सर्वे । सर्व + जस् । प्रकृत सूत्र से 'जस्' को 'इ' आदेश, “अवर्ण इवर्णे ए" (१।२।२) से वकारोत्तरवर्ती अकार को एकार तथा परवर्ती इकार का लोप | २. विश्वे । विश्व + जस् । पूर्ववत् इकार - एकार आदेश तथा इकार का लोप ।। १०९ ।
११०. अल्पादेर्वा [२।१।३१ ]
९७
[ सूत्रार्थ ]
अल्पादि गण - पठित शब्द से परवर्ती 'जस्' प्रत्यय को विकल्प से 'इ' आदेश होता है ।। ११० ।
[दु० वृ० ]
-
-
अल्पादेर्गणात् परो जस् सर्व इर्भवति वा । अल्पे, अल्पाः । प्रथमे, प्रथमाः । उभय इति नित्यं भाषायाम् । अल्प- प्रथम चरम तय - अय- कतिपय नेमार्द्धाः पूर्वादयश्च ।। ११० । [दु० टी० ]
·
अल्पा० । अल्प एवादिर्यस्य इत्यादिशब्दोऽयं व्यवस्थावाचीत्याह - अल्पेत्यादि । तयायौ उत्सृष्टानुबन्धौ प्रत्ययौ, परिशिष्टानि लिङ्गानि पूर्वादयो नवैव, गणे वृत्करणात् । द्वितये, द्वितयाः । द्वौ अवयवौ एषामिति विगृह्य " द्वित्रिभ्यामयडू वा" पक्षे तयट्द्वयाः । उभाववयवावेषामिति विगृह्य " उभान्नित्यमयट्” तमादिनिपातनाद् व्यवस्थितविभाषाविज्ञानादिति । अत आह उभय इति नित्यं भाषायामिति । 'भाषाग्रहणं स्वरूपाख्यानमेव' | नेमस्य पूर्वादीनां च प्राप्ते विभाषा, अन्येषामप्राप्ते ।। ११० ।
-
[वि० प० ]
अल्पादेः। उभय इति नित्यमिति । एतत्पुनर्व्यवस्थितविभाषाश्रयणाद् भाषायामिति स्वरूपाख्यानमेवाव्यभिचारात् तयायौ प्रत्ययौ । अतस्तदन्तस्य ग्रहणं