________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
-
९३
[वि० प० ]
सुरामि । अकारान्तात् सर्वत इति अकारमात्रस्य सर्वतोविशेषणेन प्रयोजनाभावाद् अकारोपलक्षितोऽवर्णसमुदायः सर्वतः - शब्देनोच्यते । 'सर्वतः' इत्यवर्णान्तादित्यर्थः । तेन स्त्रियामादन्तादपि स्यादित्याह - यासां तासामिति । अकारान्तादिति तु वचनं वृत्तावधिकाराविच्छेददर्शनार्थमुक्तम् । ननु कथमेतद् यावता प्रधानत्वात् सर्वनाम्नो विशेषणमुचितम् सर्वस्मात् सर्वनाम्न इति । ततो भवतामुभयीनामित्यत्रापि सुरागमो युक्त इति ? सत्यम्, विशेषणविशेष्यभावस्य प्रयोक्त्रायत्तत्वाद् इत्यदोषः । ऽकारः परादित्वार्थ इति " तृतीयादौ तु परादिः " ( २ | १।७ ) इति परादित्वम्, तेन " धुटि बहुत्वे त्वे” (२।१।१९) इत्येत्वं फलमित्यर्थः । ननु युष्मदस्मदादिभ्यः " अमौ चामू " ( २।३।८) इति कृते कथं सुरागमो न स्यादित्याह - प्रतिपदोक्त इत्यादि । पारिशेष्यात् षष्ठीबहुवचनमेव स्थितम् ||१०८ |
[क० च० ]
सुरामि । अकारान्तात् सर्वत इति वृत्तिः । अकारान्तत्वेनोपस्थितस्य सर्वनाम्नः सर्वत इति विशेषणाद् भूतपूर्वाकारान्तं साक्षादकारान्तं यावत् सर्वनाम, तस्मात् सर्वस्मादेव सुरागम इति । सर्वासामित्यत्रापि समानदीर्घे सति भूतपूर्वाकारान्तत्वमस्ति, न च उभयीनामित्यत्रापि भूतपूर्वाकारान्तत्वमिति वाच्यम् अकारस्येकारेण व्यवधानात् । न हीकारस्याप्यकाराद् भूतपूर्वान्तत्वमस्तीति कश्चिद् व्याख्यानं कुरुते । न ह्यत्रापि स्त्रीप्रत्ययेन व्यवधानत्वमस्तीति ? सत्यम्, अकारान्तादित्यस्य सर्वतोग्रहणेन विशेषणादवर्णान्तादित्यर्थः प्रतिपद्यते || १०८ |
[समीक्षा]
"
‘सर्वेषाम्, विश्वेषाम्' आदि शब्दों के साधुत्वार्थ कातन्त्रकार ‘सु’ आगम तथा पाणिनि “आमि सर्वनाम्नः सुट् ” (अ० ७।१।५२ ) से 'सुट्' आगम करते हैं । 'सु' आगम में उकार अनुबन्ध ही परादि - विधान के लिए निर्धारित है - " तृतीयादौ तु परादिः” (२।१।७), जबकि पाणिनि तदर्थ ' टू' अनुबन्ध की योजना करते हैं - " आयन्तौ टकितौ” (अ० १ । १ । ४६) और उकारानुबन्ध को उच्चारणसौकर्यार्थ मानते हैं । इस प्रकार पाणिनीय 'सुट्' - निर्देश में गौरव स्पष्ट है |