________________
कातन्त्रव्याकरणम्
१०८. सुरामि सर्वतः [२।१।२९] [सूत्रार्थ]
सर्वनामसंज्ञक अवर्णान्त लिङ्ग-प्रातिपदिक से षष्टी - बहुवचन आम् - प्रत्यय के परवर्ती रहने पर 'सु' आगम होता है ।। १०८ ।
[दु० वृ०]
अकारान्तात् सर्वनाम्नो लिङ्गात् सर्वतः आमि परे सुरागमो भवति । सर्वेषाम्, विश्वेषाम् । यासाम्, तासाम् । उकारः परादित्वार्थः। प्रतिपदोक्तग्रहणात् - त्वाम्, युवाम् ।। १०८।
[दु० टी०]
सुरा० | न्वागमबाधनार्थमिदम् । इह हि 'विशेषातिदिष्टः प्रकृतं न बाधते' (कात० प० १९) इति सर्वनाम प्रवर्तते, न त्वनन्तरः पूर्वादिः सर्वतोग्रहणेन चाकारान्तं सर्वनाम विशिष्यते । सर्वनाम्नोऽकारान्तात् ‘सर्वतः' इति स्त्रीलिङ्गात्, पुंलिङ्गान्नपुंसकलिङ्गादित्यर्थः । यत्र च स्त्रीलिङ्गमस्ति तत्रावश्यं “स्त्रियामादा" (२।४।४९) इत्याह - यासां तासामित्यादि । अथवा अकारोपलक्षितः समुदायोऽवर्णान्तः सर्वतः इत्युच्यते । अकारमात्रस्य हि नार्थः सर्वतोविशेषणेन । न पुनरेवं सर्वस्मात् सर्वनाम्न इति । एवं सति भवतामुभयीनामित्यत्रापि स्यात् । अस्तु चेत्, नैवम् । विशेषणविशेष्यभावस्येष्टत्वात् सुरित्युकारानुबन्धः परादित्वार्थः, तेन धुट्येत्वं स्यात् । ____परिशिष्टमिह षष्ठीबहुवचनम् । यदा सर्व इवाचरत्यायिः तस्य च लोपे धातुत्वात् 'सर्वाञ्चकार' इति तेषां मतम् । तदापि न भवति स्यादिसंबन्ध द् असर्वनामत्वाच्च । तर्हि कथं त्वाम्, युवामिति लाक्षणिकत्वात् सन्निपातलक्षणत्वाच्च । नन्वादेशप्रस्तावाद् 'आम् साम् सर्वतः' इति कथन्न कुर्यात्, नैवम् । आदेशे कृतेऽपि नुर्भवितुमर्हति । अथ 'सकृद् बाधितो विधिर्बाधित एव' (कात० प० ३६) इति, तदेवं कष्टमिति | 'विभाषा' न वर्तते, उत्तरत्र वा-ग्रहणात् । अथ विभाषाधिकारे पुनर्वाग्रहणम् उत्तरत्र वाऽधिकारनिवृत्त्यर्थमिति तदेष्टत इति वक्तव्यम् ।। १०८।